Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 192
________________ आह्निकम् ] जातिप्रकरणम् यन्नोपलभ्यते तन्नास्ति तद्विषाणवत्, नोपलभ्यते च शब्दस्यावरणं मूलोदकादेरिव मृत्तिकेत्यनुपलम्भान्नास्तीति गम्यते । अनुपलम्भो ह्ययमावरणविषयो नानुपलब्धिविषयः, स आवरणस्यैव भावं गमयति नानुलब्धेरित्यनुपलब्धेर्भावादावरणमेव नास्तीति । ज्ञानविकल्पानाञ्च भावाभावसंवेदनादध्यात्मम् ॥ ज्ञानविकल्पाः प्रतीतिप्रकारास्तेषां भावाभावौ प्राणिसंवेद्यौ भवतः, अस्ति मे ज्ञानं नास्ति मे ज्ञानमित्येवं सर्वः प्रत्यक्षानुमानागमज्ञानानि प्रमाणफलानि, स्मरणसंशयादिज्ञानानि च प्रमाणफलान्यनुभवतीति । सा चेयमावरणानुपलब्धिरुपलब्धिवदध्यात्म संवेद्यते नोपलभे शब्दस्यावरणं मृदमिव मलोदकादेरिति । तदेवं बाह्यपदार्थभावाभाववदान्तरज्ञानभावाभाव- 10 योरपि प्रत्यक्षत्वादपर्यनुयोगोऽयमनुपलब्धेरनुपलम्भादावरणमस्ति शब्दस्येति । तस्मात् प्रागुच्चारणादसन्नेव शब्द इति सिद्धम् । अनित्यसमस्य लक्षणम् साधात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ॥ सर्वभावानित्यत्वप्रसङ्गेन प्रत्यवस्थानमनित्यसमः प्रतिषेधः । अनित्येन 15 घटेन साधर्म्यमस्ति शब्दस्येति तस्यानित्यत्वमुच्यते तर्हि सर्वभावानामपि घटेन किमपि साधर्म्यमस्तीति सर्व एवानित्याः स्युः । अविशेषसमैवेयं जातिरिति चेत्, तत्र हि सत्तायोगात् सर्वभावानामविशेष आपादित इह तु घटसाधादेवानित्यत्वमापादितम् इति उद्भावनभङ्गिभेदाच्च जातिनानात्वमित्यसकृदुक्तम् । 20 अत्रोत्तरम्, ___साधादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधात् ॥ अतिप्रसङ्गमापादयतो ह्येतद्विवक्षितं घटसाधादसिद्धिरनित्यत्वस्येति । यदि च घटसाधादनित्यत्वस्यासिद्धिस्तहि तावकस्यास्य प्रतिषेधवाक्यस्याप्यसिद्धिः, प्रतिषेध्यवाक्यसाधर्म्यात् । अस्ति हि प्रतिषेधवाक्यस्य प्रतिषेध्येन 25 अस्ति हि प्रतिषेधवाक्यस्य प्रतिषेध्येन साधर्म्यमिति । प्रतिज्ञाद्यवयव न्या० म० २२

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240