Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 193
________________ 5 10 20 १७० न्यायमञ्जय साधर्म्यं प्रतिज्ञाद्यवयवयोगित्वमिति । किञ्च, 25 [ द्वादशम् दृष्टान्ते साध्यसाधनभावेन प्रतिज्ञातस्य धर्मस्य हेतुत्वात् तस्य चोभयथा भावान्नाविशेषः || नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः 11 अनित्यत्वसाध्यधर्म स्वरूपविकल्पनेन शब्दनित्यत्वापादनं नित्यसमः प्रतिषेधः । अनित्यः शब्द इति प्रतिज्ञाते सति जातिवादी विकल्पयति किमिदमनित्यत्वं शब्दस्य नित्यमथानित्यमिति, यदि तावदनित्यं तत् कदा15 चित् प्रच्यवते तत्प्रच्युतेर्नित्यः शब्दः अथ नित्यमनित्यत्वं तर्हि धर्मस्य नित्यत्वात् तस्य च निराधारस्यानुपपत्तेस्तदाश्रयस्य शब्दस्यापि नित्यत्वमनित्यत्वे हि शब्दे विनष्टे न तदाधारो धर्मो वर्तेतेति । अस्योत्तरम्, न हि साधर्म्यमात्रं साधनं भवति, अपि तु दृष्टान्तर्धामण्यवधृतसामर्थ्यं साधर्म्यं वैधम्र्म्यं वा तथाविधं चेत् सर्वभावानामस्ति भवतु तेषामनित्यत्वं को दोषः, नास्ति चेत् कोऽयमतिप्रसङ्गः ? न हि दृष्टान्तधर्मणि प्रज्ञातसामर्थ्यं साधर्म्यमुभयथा भवति पक्षान्तरं स्पृशति, तेन साधर्म्यविशेषस्य हेतुत्वात् तस्य च सर्वत्रासम्भवान्न सर्वानित्यत्वम् । अविशेषसमायां जातौ यत् साधनमुक्तं तदिहापि वक्तव्यमिति । नित्यसमस्य लक्षणम् प्रतिषेधे नित्यमनित्यभावादनित्यत्वोपपत्तेः प्रतिषेधाभावः ॥ प्रतिषेध्ये नित्यमनित्यत्वस्य भावश्चेदुच्यते तदनित्य एवासावुक्तो भवति अनित्योपपत्तेश्च तत्प्रतिषेधो नोपपद्यते, नित्यमनित्यत्वं शब्दस्येति च ब्रवीषि, वाक्यं पक्षनिवर्तकं प्रतिपक्षलक्षणं प्रतिषेधः, तस्य पक्षेण प्रतिषेध्येन साधर्म्यं प्रतिज्ञादियोगः । अविशेषसमायां च यः समाधिरुक्तः क्वचिद्धर्मानुपपत्तेरित्यादि । अनित्यत्वोपपत्तेश्च तत्प्रतिषेधो नोपपद्यत इति । नानित्यः शब्द इत्येवंरूपः प्रतिषेधः ।

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240