Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
आह्निकम् ] संशयप्रकरणम्
१६७ नित्यत्वकारणं प्रयत्नानन्तरीयकत्वमुपपद्यते शब्दस्येत्यनित्यः शब्दो नित्यत्वकारणमपि निरवयवत्वमस्योपपद्यते इति नित्यः स्याद् उभयत्रापि कारणोपपत्तेः ।
ननु सैवेयं साधादिसमा प्रकरणसमा वा जातिर्न भेदान्तरम् । मैवम्, उद्भावनप्रकारेण भेदात् परपक्षोपमर्दबुद्ध्या साधादिसमा जातिः प्रयुज्यते 5 पक्षान्तरोत्थापनास्थया प्रकरणसमा अप्रतिपत्तिपर्यवसायित्वाशयेनेयमुपपत्तिसमेति । अत्रोत्तरम्,
उपपत्तिकारणानुज्ञानादप्रतिषेधः ॥ उभयकारणोपपत्त्या प्रतिषेधमभिदधता पक्षद्वयकारणोपपत्तिरनुज्ञाता 10 भवति । सा चेदन ज्ञाता कथमेकतरपक्षप्रतिषेधः, एकतरपक्षप्रतिषेधश्चेत् कथमुभयकारणोपपत्तिः । उभयपक्षकारणोपपत्तिरेकतरपक्षप्रतिषेधश्चेति विप्रतिषिद्धम् । व्याघातादेव तत्प्रतिषेधो विकल्पयिष्यत इति चेत्, समानो व्याघातः, तेन हि परपक्षवत् स्वपक्षोऽपि प्रतिहन्यत एव । न हि व्याघात एक पक्षं साधयत्येकं बाधत इति ।
15 उपलब्धिसमस्य लक्षणम्
निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः प्रतिषेधः ॥ .
यदेतदनित्यतायां शब्दस्य प्रयत्नानन्तरीयकत्वं कारणमपदिष्टं तस्याभावेऽपि प्रबलप्रभजनजवभज्यमानजरत्पादपपातप्रभवे शब्दे दृश्यत एवानित्यत्वमन्यत्रापि विद्युदादौ विनापि प्रयत्नानन्तरीयकत्वमुपलभ्यत 20 एवानित्यतेति ।
अत्रोत्तरम्,
___कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः॥
अत्रैतावदेव तावद् वक्तव्यं सपक्षैकदेशवृत्तित्वमिदमस्य हेतोरुद्भावितम्, न च सपक्षैकदेशवृत्तिरगमकः । प्रयत्नानन्तरीयकत्वमनित्यत्वप्रतिबद्धं न 25
Loading... Page Navigation 1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240