Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 186
________________ आह्निकम् ] जातिप्रकरणम् १६३ नित्यत्वं सामान्यगतं संशयकारणमिति नाभ्युपगम्यते । तस्मादप्रतिषेधोऽयं नित्यसामान्यसाधर्म्यनिबन्धनसंशयापादनरूपः । प्रकरणसमस्य लक्षणम् ___ उभयसाधात् प्रक्रियासिद्धेः प्रकरणसमः॥ पक्षप्रतिपक्षौ निर्णयलक्षणे व्याख्यातौ । तावेव प्रकरणम्। प्रकरणमनति- 5 वर्तमानः प्रकरणसमः प्रतिषेधो भवति । पूर्वस्मिन्नेव प्रयोगे नित्यः शब्दो निरवयवत्वादाकाशवदित्येवञ्जातीयकं प्रतिप्रयोगमुपन्यस्यन् स्वपक्षमुत्थापयति जातिवादी। साधर्म्यग्रहणञ्चोपलक्षणं वैधhणापि प्रतिप्रयोगोपन्यासे प्रकरणसम एव प्रतिषेधो भवति उभयवैधात् प्रक्रियासिद्धेः प्रकरणसम इति । मूलहेतावपि साधर्येण वैधhण वा प्रयुक्त प्रयोगद्वयमेतद्वेदितव्यम् । 10 ननु ते एवैते साधर्म्यवैध→समे जाती साधर्म्यहेतौ वैधर्म्यहेतौ वा प्रयुज्यमानत्वाच्च तवोत्थिते इति ताभ्यामेव गतत्वान्नाभिनवोऽयं जातिप्रयोगः । चतस्रश्चैता जातय इत्येकत्वमपि न सङ्गतम्। उच्यते, तत्र परपक्षप्रवणप्रतिषेधतयैव प्रत्यवस्थानमुदाहृतमिहैव साधनच्छाययेति, अत एव प्रकरणसमोऽयं जातिरनित्यपक्षवन्नित्यपक्षोऽपि 15 प्रतिक्रियतेऽस्यामिति, उद्भावनभङ्गिभेदाच्च जातिनानात्वमसङ्कीर्णोदाहरणविवक्षया चतुर्विंशतिभेदत्वम् वस्तुतस्तु तासामानन्त्यमित्युक्तम् ।। अत्रोत्तरम, प्रतिपक्षात् प्रकरणसिद्धः प्रतिषेधानुपपत्तिःप्रतिपक्षोपपत्तेः॥ निर्णयोत्पत्त्या प्रकरणं पर्यवसितं भवति, प्रागुक्तनिर्णयात् तदवस्थानमेव । 20 उभयसाधात् प्रक्रियासिद्धेरिति । उभयेन नित्येनानित्येन च साधर्म्यात् प्रतिपक्षपक्षयोः प्रवृत्तिः प्रक्रिया। प्रकरणमनतिवर्तमान इति । निर्णयोत्पत्तौ प्रकरण निवृत्तिभर्वति, प्रतिपक्षहेतौ च सति कुतो निर्णय इति । मूलहेतावपि साफेणेति । यदा स्थापनावाद्येष साधर्म्यमात्रे नित्यः शब्दोऽस्पर्शत्वादाकाशवदिति मूलहेतुत्वेन प्रयुङ्क्ते तदापि अनित्यः शब्दः प्रयत्नान्तरीयकत्वादित्यादि प्रयोक्तव्यमित्यर्थः । . .. 25

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240