Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 184
________________ आह्निकम् ] जातिप्रकरणम् १६१ अत्र प्रसङ्गसमस्य तावदुत्तरमाह, प्रदीपोपादानप्रसङ्गविनिवृत्तिवत् तद्विनिवृत्तिः ॥ असिद्धं हि नाम साध्यते न सिद्धं प्रयत्नवैफल्यात्, सान्धकारे सद्मनि पिठरादिपदार्थदर्शनाय प्रदीपमुपाददते लौकिकाः, न दीपदर्शनार्थं दीपान्तरपरम्परामाहरन्तीति । अन्तरेणापि हि दीपान्तराणि दृश्यत एव प्रदीपः । एवं 5 लौकिकपरीक्षकाणां घटादौ प्रयत्नानन्तरीयकत्वस्य सिद्धत्वात् तत्र कारणापदेशो निष्प्रयोजन इति तस्मान्नायमतिप्रसङ्गापादनस्य विषयः । अथ प्रतिदृष्टान्तसमस्योत्तरम्, प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥ प्रतिदृष्टान्त एव साधकबुद्धया यदि त्वयोपन्यस्तस्तहि विशेषहेतुर्वक्तव्यो- 10 ऽनेन हेतुना प्रतिदृष्टान्त एव साधको न दृष्टान्त इति । न चासौ विशेषे हेतुरुच्यते, तस्मान्नं प्रतिदृष्टान्तः सिद्धिहेतुरिति दृष्टान्त एव साधको भवति । प्रतिदृष्टान्तहेतुत्वेऽपि स्थिते सत्यहेतुदृष्टान्तो न हि साधकः स्यात्, न च तदस्तीत्युक्तम् अतो न हेतुर्दृष्टान्तः । ____ अथ यथा प्रतिदृष्टान्तो न साधक एवं दृष्टान्तोऽपि मा भूद्, इत्यनया 15 नीत्या प्रत्यवतिष्ठसे, हन्त तर्हि प्रतिदृष्टान्तस्य तावदहेतुत्वं स्वकण्ठेन कथितमिति । तस्मिन्नसाधके दृष्टान्त एव साधक इति । अनुत्पत्तिसमस्य लक्षणम् प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥ __अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमः प्रतिषेधः । प्राक्तन एव प्रयोगे 20 जातिवाद्याह 'अनित्यः' इत्युत्पत्तिधर्मक उच्यते । यश्चोत्पत्तिधर्मकस्तस्योत्पत्तेः पूर्वमनुत्पत्त्या भवितव्यम्, अनुत्पन्ने च शब्दाख्ये धर्मिणि प्रयत्नानन्तरीयकत्व धर्मः क्व वर्तताम्, अलब्धपक्षवृत्तेश्च कथमनित्यत्वं साधयतु, असिद्धे चानित्यत्वे यश्चोत्पत्तिधर्मकस्तस्योत्पत्तेरिति । यस्य व्याख्यानं पूर्वमुत्पत्त्या भवतिव्यमिति । न्या० म०२१

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240