Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 183
________________ न्यायमञ्जल् [ द्वादशम् प्रतिषेधौ भवतः । हेतौ साधनवादिना प्रयुक्ते पर आह सोऽयं हेतुः प्राप्य वा साध्यं साधयेदप्राप्य वा ? प्राप्य चेद् द्वयोर्लब्धस्वरूपयोरप्राप्तिर्भवतीति किं कस्य साध्यं साधनं वेत्यविशेषः । अप्राप्य तु साधकत्वमनुपपन्नमतिप्रसङ्गात्, न-ह्यप्राप्य प्रदीपः प्रकाश्यं प्रकाशयतीति । अनयोरुत्तरम्, घटादिनिष्पत्तेः पीडने चाभिचारादप्रतिषेधः ॥ नायं प्रतिषेध उपपद्यते, उभयथापि कारणस्य भावदर्शनात् । दण्डचक्रसूत्रादिकारकाणि प्राप्य मृदं घटादिकार्यं निष्पादयन्ति, दृश्यन्ते अभिचारकर्मणा च श्येनादिना दूरस्थस्यापि शत्रोः पीडनं सम्पाद्यत इति । 10 प्रसङ्गप्रतिदृष्टान्तसमयोलक्षणे दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ॥ अत्र प्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः । पूर्वोदाहृत एव हेतौ यद्यनित्यत्वे प्रयत्नानन्तरीयकत्वं साधनं प्रयत्नानन्तरीयकत्वे इदानीं कि 15 साधनं तत्साधने किमिति। दृष्टान्तस्य घटादेरनित्यतायां कारणं किञ्चि दुपदिश्यते, तेन तत्कारणान्वेषणातिप्रसङ्गात् प्रसङ्गसमोऽयं प्रतिषेधः । प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः । __ यथा घट: प्रयत्नानन्तरीयकः सन्ननित्यो दृष्ट एवमाकाशं प्रयत्नानन्त रीयकं नित्यं दृश्यते, तद्वच्छब्दोऽपि नित्यः स्यादिति । कः पुनराकाशस्य 20 प्रयत्नानन्तरीयकत्वं वदेत् कूपखननादिना अवकाशकरणं मन्वान एवं ब्रयादपि कश्चित् । नन्वेवमपि व्यभिचारोद्भावनमेतत् सम्यगुत्तरं नासदुत्तरप्रकारो जातिप्रयोगः ? नैतदेवम्, न हि हेतोरनैकान्तिकत्वमुद्भावयन्नसौ साधुरिव जातिवादी प्रत्यवतिष्ठते; अपि तु दृष्टान्तबलेन नित्यत्वमेव साधयन्नुत्थित इति जाति25 प्रयोग एवायम् । हेत्वाभासा अपि स्वरूपनिग्रहपुरःसरमपरहेतुप्रतिबिम्बवर्त्मना प्रदर्यमाना जातितां प्रतिपद्यन्त एव ।

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240