Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 185
________________ १६२ न्यायमञ्जऱ्यां [द्वादशम शब्दस्य बलान्नित्यत्वमेव भवति कारणाभावादित्यनित्यत्वसिद्धिकारणस्य प्रयत्नानन्तरीयकत्वस्याभावादित्यर्थः । तथा च शब्दोत्पादककारणाभावादनुत्पन्ने शब्दे निराश्रयो हेतुरिति । अस्योत्तरम्, तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ॥ शब्दाख्यमिणः सिद्धस्य सतो नित्यत्वमनित्यत्वं वा विचार्यते, तदसिद्धौ हि नित्यत्वमपि कस्य भवानभिदधीत ? उत्पन्नस्य चास्य तथाभावो भवति . नानुत्पन्नस्य, उत्पन्नः खल्वयं शब्द इति भवति प्रागुत्पत्तेरलब्धात्मनः किमुच्यते, लब्धस्वरूपस्य पुनरनित्यत्वकारणप्रयत्नानन्तरीयकत्वसभावाद10 युक्त एवायं प्रतिषेधः । संशयसमस्य लक्षणम् _ नित्यानित्यत्वसाधात् संशयसमः ॥ - नित्यानित्यसाधोपन्यासेन संशयापादनप्रवणं प्रत्यवस्थानं संशयसमः प्रतिषेधः । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्यस्मिन्नेव हेतौ अस्ति 15 शब्दस्य नित्यसाधर्म्यम्, प्रयत्नानन्तरीयकत्वादनित्यः शब्द उत नित्यसाधा दैन्द्रियकत्वान्नित्य इति संशयः, एवं परः प्रत्यवतिष्ठते । न च साधर्म्यसमप्रयोग एवायमाशङ्कनीयः संशयापादनप्रवणत्वादस्येति । अस्योत्तरम्, साधात् संशये न संशयो वैधादुभयथा वा संशयेऽत्यन्तसंशयो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः॥ स्थाणुर्वा पुरुषो वेति स्थाणुपुरुषयोश्च साधादूर्ध्वत्वादेः संशयो भवति, न तु शिरःपाण्यादिवैधात् प्रत्युत ततोऽसौ निवर्त्तते । यदि पुनरुभयथापि साधादिव वैधादपि संशयः स्यात् तथा सत्यनन्तसंशयः प्राप्नोति । इह च विशेषदर्शनस्थानीयमनित्यतासाधनं शब्दे प्रयत्नानन्तरीयकत्वमस्तीति 25.. प्रागुत्पत्तेरलब्धात्मनः किमुद्दिश्यते किमुच्यते । नास्त्यत्र विमतिरित्यर्थः ।

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240