Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 169
________________ १४६ न्यायमञ्ज [ एकादशम् पञ्चाशद् भवितुमर्हति, तस्मान्नैवं वक्तुं शक्यम् । यथा विरुद्धादिविशेषरूपरहितमप्रयोजकत्वं हेत्वाभासे सामान्यरूपं दृश्यते तथा प्रमाणेष्वपि प्रत्यक्षादिविशेषरूपरहितं तद् दृश्यताम्, यथा वा प्रमाणेषु तन्न दृश्यते तथा हेत्वाभासेष्वपि मा दर्शीति वस्तुस्वभावानामनुयोगक्षेत्रतानपपत्तेः । __अपि चाप्रयोजकत्वं सामान्यं विरुद्धादिविशेषेष्विव तद्रूपरहितेषु स्वविशेषेष्वपि सम्भवद् दृश्यते। अत एव तदपिस्वविशेषनिष्ठमेवोदाहृतम्, अनित्याः परमाणवो मूर्तत्वादिति, न त्वाकाशवदनवलम्बनमेव किंचित् प्रयोजकत्वसामान्यमिति, तस्मात् सुष्ठुक्तं न सामान्यलक्षणे शक्यमुदाहर्तुमिति । छलविभागः एवं सामान्यलक्षणमभिधाय छलस्य विभागमाह, तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलञ्च ॥ निगदव्याख्यातं सूत्रम् । विभागसामान्यलक्षणयोश्चोपदेशपौर्वापर्यनियमो नास्तीति पूर्वमेवोक्तम् । वाक्छललक्षणम् अथ विभागक्रमेण विशेषलक्षणान्याह, तत्राविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ॥ सम्भवद्विशेष्यविशेषणसाधारणार्थसमर्पणकौशलशालिनि श्लेषालङ्कारवति शब्दे प्रयुक्ते सति वक्तुरभिप्रेतमर्थमपहृत्य ततोऽर्थान्तरं परिकल्प्य तन्निषेधवचनं वाचि निमित्तभूतायां छलं वाक्छलम् । 20 नवकम्बलोऽयं माणवक इति नवः कम्बलोऽस्य नव कम्बला अस्येति च विग्रहदृशा दृश्यमानविशेषमपि समासपदमिदमर्थद्वयेऽप्यविशिष्टम् । तत्राभिनवकम्बलयोगं वक्तुरभिप्रेतं प्रमाणोपपन्नञ्च निह्नत्य नवसंख्यासम्बन्धमध्यारोप्य तत्प्रतिषेधेन परः प्रत्यवतिष्ठते कुतोऽस्य नव कम्बला इति । तदेतत् साधारणशब्दे वाचि छलं वाक्छलमिति । यथा च कस्याञ्चिदवस्थायां 25 जल्पादौ छलादिप्रयोगो युक्त इति तद्व्युत्पादनम् । एवं परप्रयुक्तस्यापि सतश्छलादेः प्रतिसमाधानमभिधेयमिति तदपि व्युत्पाद्यते ।

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240