________________
१४६ न्यायमञ्ज
[ एकादशम् पञ्चाशद् भवितुमर्हति, तस्मान्नैवं वक्तुं शक्यम् । यथा विरुद्धादिविशेषरूपरहितमप्रयोजकत्वं हेत्वाभासे सामान्यरूपं दृश्यते तथा प्रमाणेष्वपि प्रत्यक्षादिविशेषरूपरहितं तद् दृश्यताम्, यथा वा प्रमाणेषु तन्न दृश्यते तथा हेत्वाभासेष्वपि मा दर्शीति वस्तुस्वभावानामनुयोगक्षेत्रतानपपत्तेः । __अपि चाप्रयोजकत्वं सामान्यं विरुद्धादिविशेषेष्विव तद्रूपरहितेषु स्वविशेषेष्वपि सम्भवद् दृश्यते। अत एव तदपिस्वविशेषनिष्ठमेवोदाहृतम्, अनित्याः परमाणवो मूर्तत्वादिति, न त्वाकाशवदनवलम्बनमेव किंचित् प्रयोजकत्वसामान्यमिति, तस्मात् सुष्ठुक्तं न सामान्यलक्षणे शक्यमुदाहर्तुमिति । छलविभागः एवं सामान्यलक्षणमभिधाय छलस्य विभागमाह,
तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलञ्च ॥ निगदव्याख्यातं सूत्रम् । विभागसामान्यलक्षणयोश्चोपदेशपौर्वापर्यनियमो नास्तीति पूर्वमेवोक्तम् । वाक्छललक्षणम्
अथ विभागक्रमेण विशेषलक्षणान्याह, तत्राविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ॥
सम्भवद्विशेष्यविशेषणसाधारणार्थसमर्पणकौशलशालिनि श्लेषालङ्कारवति शब्दे प्रयुक्ते सति वक्तुरभिप्रेतमर्थमपहृत्य ततोऽर्थान्तरं परिकल्प्य
तन्निषेधवचनं वाचि निमित्तभूतायां छलं वाक्छलम् । 20 नवकम्बलोऽयं माणवक इति नवः कम्बलोऽस्य नव कम्बला अस्येति च
विग्रहदृशा दृश्यमानविशेषमपि समासपदमिदमर्थद्वयेऽप्यविशिष्टम् । तत्राभिनवकम्बलयोगं वक्तुरभिप्रेतं प्रमाणोपपन्नञ्च निह्नत्य नवसंख्यासम्बन्धमध्यारोप्य तत्प्रतिषेधेन परः प्रत्यवतिष्ठते कुतोऽस्य नव कम्बला इति । तदेतत्
साधारणशब्दे वाचि छलं वाक्छलमिति । यथा च कस्याञ्चिदवस्थायां 25 जल्पादौ छलादिप्रयोगो युक्त इति तद्व्युत्पादनम् । एवं परप्रयुक्तस्यापि
सतश्छलादेः प्रतिसमाधानमभिधेयमिति तदपि व्युत्पाद्यते ।