________________
आह्निकम्
छलप्रकरणम् छलप्रकरणम्
तत्त्वाध्यवसायसंरक्षणं जल्पवितण्डयोः प्रयोजनमुक्तम् । तदङ्गभूतानि च्छलजातिनिग्रहस्थानानि । यद्यपि च वादे केषाञ्चिदभ्यनुज्ञानमस्ति तथापि जल्पवितण्डे एव तेषां प्राचुर्येण क्षेत्रमिति तदौपयिकतया तत्स्वरूपनिरूपणं युक्तमित्युद्देशक्रमेणच्छलस्य तावल्लक्षणमाह,
वचनविघातोऽर्थविकल्पोपपत्त्या छलम् ॥ छलस्य भेदवत्त्वात् सामान्यलक्षणानि च वक्तव्यानि । तानीह सर्वाणि स्वकण्ठेन किल 'तत्पूर्वकमनुमानम्' इत्यत्र त्रिचतुराक्षरसमर्पितापरिमितविषयवितण्डानुमानलक्षणलब्धनिरतिशयसूत्रकरणकौशलस्य मे किमधुना शिष्यजनमनःक्लेशकारिणा संक्षिप्ताभिधानदोहदेनेति मन्यमानः सूत्रकृदुक्तवान् । तत्र 10 'वचनविघात इति सूत्रं सामान्यलक्षणप्रतिपादकम्' । परस्य वदतो वचनविघातोऽभिधाननिरोधश्छलम् । किमास्यपिधानादिना ? न, इत्याह 'अर्थविकल्पोपपत्त्या' इति । वक्तुरनभिप्रेतमर्थात् तदुक्ते वचसि समारोप्य तन्निषेधं छलवादी करोति । कथमर्थान्तरारोपणमिति चेत्, अर्थविकल्पोपपत्त्या विकल्पमानार्थघटनयेत्यर्थः ।
15 किमुदाहरणम् ? विशेषलक्षणेषु वक्ष्यामः । इहैव कस्मान्नोच्यते ? असम्भवादिति ब्रूमः । न हि निर्विशेषं सामान्यमुपपद्यत इति तदाह्रियमाणं बलाद विशेषनिष्ठमेवावतिष्ठते । अन्येष्वपि गौर्न पदा स्प्रष्टव्येति सामान्योपदेशेषु नामूर्त्तायामाकाशनिर्विशेषवपुषि जातौ स्पर्शप्रसक्तिस्तन्निषेधो वा कल्पते, किन्तु व्यक्तिष्वेवेति विशेषविषय एव सर्वत्र क्रियायोग इति तत्रैवोदाहरण- 20 वर्णनं युक्तम् । ___कथं तर्हि सकलहेत्वाभाससार्थसामान्यलक्षणमप्रयोजकमनपेक्षितसव्यभिचारविरुद्धादिविशेषमप्युदाहरणद्वारेण दर्शितम्, अनित्याः परमाणवो मूर्तत्वाद् घटवदिति ।
उच्यते, प्रमाणे तहि प्रत्यक्षादिविशेषनिरपेक्षं कथं प्रमाणसामान्यं 25 नोदाहृतम् ? न च तत्सामान्यादन्यत्रापि तथास्त्विति वक्तव्यम्, न हि चाक्षुषेण
न्या० म० १९