________________
१४४
न्यायमञ्ज
[ एकादशम् अप्राप्तकालमेव तत् कथितं पृथगेव निग्रहस्थानम् । तच्च पुनरुच्यमानं न कञ्चन स्वार्थमावहति तस्मादपव्याख्यानमेतत् ।
अपर आह, सविशेषणस्य हेतोः प्रयुज्यमानस्य यस्य विशेषणं कार्यकालमत्येति न तत्पर्यन्तमवतिष्ठते स कालात्ययापदिष्ट इति । यथा कालान्तरस्थायी शब्दः संयोगव्यङ्गयत्वाद् रूपवदिति । अत्र न व्यङ्गयत्वमात्रं हेतुत्वेन विवक्षितम्, अपि तु सविशेषणं संयोगव्यङ्गयत्वम् । स चायं संयोगो व्यञ्जके दृष्टान्तर्मिणि रूपे तदवगतिपर्यन्तस्थितिरुपलभ्यते दीपादिसंयोगः, साध्यधर्मिणि तु शब्दे न तदवस्थानमिति । दूरतो हि दारुपरशुयोगविच्छिन्ने छेत्रा
पुनरुद्यम्यमाने परश्वधे श्रूयते शब्द इति तदुपलब्धिकाले तदत्ययात् काला10 त्ययापदिष्टोऽयं हेतुरिति । एतदपि न सङ्गतमसिद्धत्वेनास्य हेत्वाभासान्तरत्वानुपपत्तेः ।
तस्मादयमर्थः, हेतोः प्रयोगकालः प्रत्यक्षागमानुपहतपक्षपरिग्रहसमय एव, तमतीत्य प्रयज्यमानः प्रत्यक्षागमबाधिते विषये वर्तमानः कालात्ययापदिष्टो भवति । तस्योदाहरणं पूर्वमेव प्रदर्शितम् ।
उष्णो न तेजोऽवयवी कृतकत्वाद् घटादिवत् । ब्राह्मणेन सुरा पेया द्रवत्वात् क्षीरनीरवत् ॥ यच्च किञ्चिदभिधेयमत्र तत् सर्वमुक्तमनुमानलक्षणे । अप्रयोजकनिरूपणे पुनः किञ्चनोदितमतो विरम्यते ॥ हेत्वाभासास्त एतेऽवगतिनियमितानन्यसङ्कीर्णरूपा निर्णीताः पञ्च येऽर्थे विदधति महतीं शुद्धिमभ्यस्यमानाः । पक्षादौ वृत्तिभेदाकलनगुरुतरक्लेशनिष्पद्यमाना। नेयत्ता त्वेतदीया क्वचन फलवती नादृता तेन तज्जैः ।
अवगतिनियमितानन्यसङ्कीर्णरूपा इति । अनन्यसङ्कीर्णमेषां परस्परं रूपमित्यत्र किं प्रमाणमिति चेत् तदाह, अवगतिनियमितेति । रूपमेषामुपलभ्यमानं यतः परस्परा25 सङ्कोर्णमवगम्यते तथा सिद्धमेव तेषां रूपमसङ्कीर्णमित्यर्थः।
पक्षादौ वृत्ति.... पक्षैकदेशवृत्तिरयं तु पक्ष.......इत्यादिना वृत्तिभेदेन । छलस्तु एव.......अन्यथासिद्धात्माविशेषनिष्ठम् ।