________________
आह्निकम् ] तर्कप्रकरणम्
१४३ . युक्तस्तस्मादन्यथासिद्धनामा हेत्वाभासः सोऽयमेकप्रकारः । यस्योत्ताना विद्यमानापि पक्षे वृत्तिर्न स्यात् साध्यधर्मप्रयुक्ता ॥
हेत्वाभासकुटुम्बकस्य तदिदं सर्वस्य साधारणं रूपं यद्यपि लक्षणान्तरकृतो भेदस्तथा नान्यतः । सामान्यन्तु विशेषरूपरहितं नास्ति प्रमाणं यथा मा भूदत्र तथेति नास्य विषयश्चोद्यस्य वस्तुस्थितिः ॥
बाधलक्षणम्
कालात्ययापदिष्टः कालातीतः ॥ यथाप्राप्तं हेतुप्रयोगकालमतीत्य यो हेतुरपदिश्यते स कालात्ययापदिष्टः । कालातीत इत्युच्यते ।
10 तत्र केचिदाचक्षते, प्रतिज्ञानन्तरं हि हेतुः प्रयोक्तुं युक्तः, तत्र यः प्रतिज्ञायाः पूर्वमेव दृष्टान्तवचनादेरप्यूचं वा प्रयुज्यते स कालात्ययापदिष्ट इति, तदनुपपन्नम् ।
अक्षतप्रतिबन्धस्य साध्यावगतिकारिणः ।
क्रमातिक्रममात्रेण न हेत्वाभासता भवेत् ।। कियांश्चैष दोषः ? पदान्तरव्यवहितोच्चारणं नाम, व्यवहितमपि येन सह समुचितसमयमन्वेतुमधिकृतमितरदतिनिकटपठितमपि पराणुध दवीयसापि तेनैव सम्बन्धमनुभवति । यथा,
अयसा पथि गच्छन्तीमोषधीं दीर्घलोचनाम् ।
दृष्टवानसि केदारं यो लुनासि मम प्रियाम् ॥ इति। 20 सामान्यं तु विशेषरूपरहितमिति । यथा प्रमाणेषु न प्रत्यक्षादि विशेषशून्यमन्यत् प्रमाणं पञ्चममस्ति तथात्रापि विरुद्धादिविशेषरूपशून्यं कथमन्यथासिद्धं सामान्यभूतं पृथग् हेत्वाभासो भवेदिति, एवंविधस्य चोद्यस्य वस्तुस्थितिर्न विषयः; वस्तुस्वभावोऽयं यद् विशेषरहितमपि सामान्यं दृश्यत इत्यर्थः ।।
अयसा पथि गच्छन्तीमिति । यस्त्वमयसा ओषधी लुनासि स त्वं मम प्रियां 25 दृष्टवानिति सम्बन्धः । किंभूताम् ? पथि गच्छन्तीं दीर्घलोचनां च ।