SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १४२ न्यायमञ्ज [ एकादशम् भवत्वेवम्, असिद्धवर्गे तु कथमेष हेतुर्गण्यते ? साध्यधर्मप्रयुक्ता धर्मिणी वृत्तिरस्य नास्तीति चेत्, यद्येवं पञ्चानामपि तत्प्रयुक्तवृत्तिरहितत्वादसिद्ध एवैको हेत्वाभासः स्यात् । __ अथ सत्यपि प्रयोजकत्वे विपक्षवृत्त्याद्यवान्तररूपभेदनिबन्धनानैकान्तिक5 त्वादिव्यपदेशपञ्चकभाज इमे हेत्वाभासा इष्यन्ते, हन्त तहि प्रकृतोऽयं हेतुर्मूर्तत्वादिति किमनैकान्तिक उच्यतामथ कालात्ययापदिष्ट आहोस्विद् विरुद्ध उत प्रकरणसम इति ? नैषामन्यतमोऽपि वक्तुं शक्यते एतल्लक्षणानुपपत्तेरिति चेत्, काममसिद्धोऽपि मा वादि, पक्षे वर्तमानत्वेन तल्लक्षणस्यानुपपत्तेरिति । आस्तां तर्हि षष्ठ एवायं हेत्वाभासः, सम्यग् हेतुतां तावद् यथोक्तनयेन नाश्नुत 10 एव, न च तेष्वन्तर्भवतीति, बलात् षष्ठ एवावतिष्ठते । ____ कथं विभागसूत्रमिति चेत्, अतिक्रमिष्याम इदं सूत्रम् । अनतिक्रामन्तः सुस्पष्टदृष्टमपीममप्रयोजकं हेत्वाभासमपह्नवीमहि, न चैवं युक्तमतो वरं सूत्रातिक्रमो न वस्त्वतिक्रम इति । अथ वा न सूत्रकारनियमोल्लङ्घनं श्रेयः । प्रमाद्यन् खलु परिमितदर्शी 15 मादृशोऽन्यथा ब्रूयात्, न न्यायमहोदधेः पारदृश्वा भगवानक्षपादः । तदेनं हेत्वाभासमसिद्धवर्ग एव निक्षिपामः । · ननु पक्षे वर्तमानः कथं तत्र निक्षेप्तुं शक्यते । यथा साध्यधर्मप्रयोजकतयापक्षेऽपि वर्तितुं युक्तम्, तथा न वर्तत एवायं तत्रेत्यदूरविप्रकर्षण भवत्येवायमसिद्धः । अत एवायमन्यथासिद्ध इत्युच्यते । यथा सिद्धः सिद्धो 20 भवति तथा न सिद्धः अन्यथा तु सिद्ध इत्यनया नीत्योत्तानवृत्तिमात्रलम्भेऽप्यय मसिद्ध एव । अन्येषु तु हेत्वाभासेषु भङ्गयापि नान्तर्भवतीत्युक्तमेतत् । अथ वा सर्वहेत्वाभासानुवृत्तमिदमन्यथासिद्धत्वं नाम रूपमिति न षष्ठोऽयं हेत्वाभासः । तत्तु क्वचित् केवलमेव दृश्यते क्वचिद् व्यभिचारादिरूपान्तर सहचरितम्, अतश्च व्यभिचारादिरूपापेक्षमेव पञ्चत्वमुपदिष्टवान् मुनिरिति न 25 विभागसूत्रविरोध इत्यलमतिविस्तरेण । तत्तु क्वचित् केवलमेव दृश्यत इति । यत्र केवलं दृश्यते तत्रासिद्ध एवान्तर्भाव इति भावः।
SR No.002347
Book TitleNyayamanjari Part 03
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1984
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy