________________
आह्निकम् ] तर्कप्रकरणम्
१४१ हि दृढम् अदृढस्य तदनित्यतानुमानस्य मूर्तत्वादेर्यदि बाधकं स्यात् को दोषः स्यादिति ।
अथ मनुषे, नियम एवैष प्रत्यक्षानुमानयोविरोधे प्रत्यक्षमेव बलीय इति तदेवानुमानस्य बाधकमुचितं नानुमानान्तरमिति । तदसत्, अलातचक्रादौ प्रत्यक्षमप्यनुमानेनानन्यथासिद्धेन बाध्यत एव, ननु भ्रमणविरतौ परिमित- 5 परिमाणोल्मुकग्राहि प्रत्यक्षमेव तत्र प्रत्यक्षस्य बाधकं नानुमानमिति, मैवम्, अनवरतपरिभ्रमणसमुद्भूतचक्रावभाससमय एवानुमानेन तद्भ्रान्ततानिश्चयात् ।
पूर्वप्रवृत्तमचक्राकारतदलातपरिच्छेदि प्रत्यक्षं बाधकमिति चेत्, न, पूर्वप्रवत्तत्वेनैवातिक्रान्तत्वात, तस्मादनमानमेव चक्रज्ञानबाधकम् । एवञ्चानन्यथा- 10 सिद्धमनुमानमपि प्रत्यक्षस्य बाधकं भवति । यच्चानन्यथासिद्धतया मूलस्तम्भभूतमखिलानुमानप्रतिष्ठायतनं प्रत्यक्षमपि बाधते तदनुमानस्य तपस्विनः कथं न बाधकम् ? अतश्च प्रत्यक्षागमग्रहणस्योपलक्षणार्थत्वादनुमानं बाधितमपि कालात्ययापदिष्टमेवेति।
तदेतदसमीचीनम्, अनुमानादेर्बाध्यबाधकभावानुपपत्तेः । सर्वत्र खलु 15 प्रमाणाभासरूपं बाध्यते न तु प्रमाणं नाम शक्यते बाधितुम् । अलातचक्रादावपि प्रत्यक्षाभासस्य बाधकमनुमानं न प्रत्यक्षस्य, एवमत्राप्यनुमानाभासस्य बाध्यता नानुमानस्य, तदिदानीमनुमानाभासत्वमस्य किंकृतमिति चिन्त्यताम् । स्वलक्षणवैधुर्यादिति चेत्, किमनुमानान्तरेण बाधकेन । तद्बाध्यतया तु तदाभासत्वकथनमितरस्यापि तादृशमेव। परमाणुषु प्रसाधनानुमानमनन्यथासिद्धमिदन्तु 20 मूर्तत्वमन्यथासिद्धमिति चेत्, आगतोऽसि मदीयं पन्थानम्, अन्यथासिद्धत्वादेव च तदप्रामाण्ये सिद्धे किं तद्बाधया। अन्यथासिद्धत्वमेव कथमिति चेत्, न घटादौ मूर्तत्वप्रयुक्तमनित्यत्वम् अपि तु कार्यत्वप्रयुक्तम् । कार्यस्य कारणविभागाद् वा तद्विनाशाद् वा विनाशोपलब्धेः कार्यत्वमेवानित्यत्वप्रयोजकमुक्तं न मूर्तत्वम् । मूर्तत्वे तु नित्यताक्षेपिणि परमाणुतैव हीयेतेत्युक्तम् । तस्मान्न 25 मूर्तत्वमनित्यतायाः कारकं ज्ञापकं वेति भवत्यन्यथासिद्धम् ।