SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४० न्यायमञ्ज [ एकादशम् तत्र विपक्षता, निश्चितविपक्षवृत्तिवत् संशयितविपक्षवृत्तिरपि नानकान्तिकतामतिवर्तत इति सर्वानुमानानामेव निवापाञ्जलिर्दत्तः स्यात् । न च वादिहृदयपरिकल्पनोपारूढस्थितेरपि पक्षो नाम नास्ति, तदभावे किमपेक्षः सपक्षविपक्षव्यवहारः ? बुद्धयारूढत्वपक्षेऽपि न सपक्षविपक्षयोः पक्षत्वम्, न च वस्तूनामुभयात्मकता भवेत्; किन्तु कञ्चित् कालमन्यतरासिद्धवद् विमतिपथापतितस्य वस्तुनः पक्षत्वमुपेयते, निर्णयजन्मना तु विमतिविरतौ नूनमन्यतरवर्गपतितोऽसौ भविष्यतीति सर्वथा न तस्यां दशायां तेनानैकान्तिकत्वोद्भावनं युक्तम् । नन्वनेन पथा पृथक्कृते सपक्षविपक्षाभ्यां पक्षे न तत्रान्वयव्यतिरेकयोरन्यतरस्यापि ग्रहणं भवेत् । सपक्षे ह्यन्वयो गृह्यते विपक्षे च व्यतिरेकः । एष 10 तु ताभ्यामर्थान्तरमिति तत्रागृहीतान्वयव्यतिरेकात्मकनियमो हेतुः षण्ढ इव न पुत्रजन्मनि समर्थ एव साध्यसाधने भवेत् । अलमनया डिम्भविभीषिकया । न हि सकलसपक्षविपक्षसाक्षात्करणकेकोल्लासपुरःसरं व्याप्तिग्रहणमिति पूर्वमेव निर्णीतोऽयमर्थः, न च तद्वर्जमिति व्याप्तिग्रहणं भवति, येन षण्ढसुतसाम्य चोदनावकाशः स्यात् । सामान्येन हि व्याप्तिर्गृह्यमाणा तत्रापि गृहीता 15 भवत्येव, तेनापि च कालान्तरे सपक्षविपक्षान्यतरवर्गानुप्रवेशिना भवितव्यमेव । विमत्यवस्था, या तु पृथगेव ताभ्यामसाविति न तत्र वर्तमानो हेतुरनैकान्तिकीभवति। एतेनेश्वराद्यनुमानानामप्यनैकान्तिकत्वमपाकृतं वेदितव्यम् । तस्मानानकान्तिकत्वेनागमकं मूर्तत्वमपि त्वन्यथासिद्धत्वेनैवेति । नन्वेवमपि परमाणुप्रसाधनानुमानमहिमहतशक्तितया मूर्तत्वमनित्यत्व20 सिद्धावक्षमं जातमिति। ततश्च कालात्ययापदिष्टत्वान्नान्यथासिद्धतामधिगच्छेत् । नैतदेवम्, कालात्ययापदिष्टो हि प्रत्यक्षागमापहृतविषय उच्यते । अनुष्णः कृष्णवर्मा, मदिरा द्विजैः पातव्या इत्यादौ दर्शितः। यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः स इति । न च परमाणुषु परमाणुतयैव सततपरोक्षेषु प्रत्यक्षम् अनित्यताविपर्ययग्राहि प्रवर्तितुं शक्तम्, आगमस्तु नास्त्येवेति कुतः 25 कालात्ययापदिष्टता ? ननु किमिदम् अवनिपतिवचनम् उत वैदिकी चोदना, यत् प्रत्यक्षागमयोरेव बाधकत्वमनुमानं प्रति नानुमानान्तरस्येति । परमाणुप्रसाधनानुमानं
SR No.002347
Book TitleNyayamanjari Part 03
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1984
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy