________________
आह्निकम् ]
छलप्रकरणम्
१४७
नव कम्बला अस्येति मम विवक्षितमिति कुतः प्रतिपन्नमायुष्मता ? किमयमभिनवकम्बलयोगप्रतिपादको न भवत्येव ? बहुव्रीहिः पक्षद्वयेऽपि च सम्भवति, यदि तावदर्थप्रकरणादिसामर्थ्य पर्यालोचनयावसितनियताभिधेयवृत्तिशब्दव्यवहाराभिज्ञोऽसि तदर्थसिद्धमर्थमभिनवकम्बलसम्बन्धमेव बुद्ध्वा तूष्णीमास्स्व ।
अथ शुष्कतार्किककुटुम्बकगर्भदास इव शब्दवृत्तानभिज्ञ एव त्वम् तर्हि s पक्षद्वयसम्भवे संशयानो मामेव पृच्छ किं ते विवक्षितमिति निषेधकः सन् वक्तुमुपक्रमसे ।
ननु त्वमप्यक्षप्राप्त्यादिफलपर्यन्तशब्दप्रयोगप्रवृत्तः किमिति साधारणमिदम् अन्धपदप्रायं वचः प्रयुङ्क्षे ?
अयि बालिश ! तवैतद् अन्धपदम्,
अर्थप्रकरणाधीन नियतस्वार्थवृत्ति ताम्
यो न जानाति शब्दानां स एवमपभाषते ॥ इदमर्थद्वये तावत् साधारणपदं भवेत् । जातिशब्दा: पुनर्व्यक्तिसहस्राक्षेपकारिणः ॥ स्पृशन्ति नियतं वाच्यं तेऽपि प्रकरणादिना । ब्राह्मणान् भोजयेत्या तद् बालेन न शिक्षितम् ॥ तस्माच्छब्दार्थसन्देहे प्रयोक्ता वत्स ! पृच्छयते । न त्वर्थान्तरमारोप्य तन्निषेधो विधीयते ॥
सामान्यच्छल लक्षणम्
सम्भवतोऽर्थस्यातिसामान्ययोगदिसद्भूतार्थकल्पना सामान्यच्छलम् ।।
अतिव्यापकं सामान्यमतिसामान्यम्, तद्योगात् तत्सम्भवात् क्वचिद् व्यक्तार्थस्य कस्यचित् संभवतः संभाव्यमाननिष्पत्तेर्वक्त्राभिहितस्य सतो या असद्भूतार्थंकल्पना वक्तुरनभिप्रेतातिसामान्यहेतुत्वकल्पना तया च प्रत्यवस्थानम्, तत् सामान्यनिमित्तं छलं सामान्यच्छलम् ।
ब्राह्मणान् भोजयत्यादौ तद्बालेन शिक्षितमिति । ........
10
15
20
25