________________
5
10
अत्रोत्तरम्, केन ब्राह्मणत्वस्य हेतुत्वमभिहितं यदनैकान्तिकीकुर्वन् प्रत्यवस्थितोऽसि ? सम्भावनावचनमिदं स्तुत्यर्थमुपन्यस्तम् । विद्याचरणसम्पदः पात्रं हि ब्राह्मणाः सति ब्राह्मणत्वे पूर्वजन्मोंपचितसुकृतपरिणामाद् भवति विद्याचरणसम्पत्, न तु तदेव तस्या हेतुरिति । यथा सम्भवन्त्यस्मिन् क्षेत्रे शालय इति क्षेत्रप्रशंसापरे वाक्ये प्रयुक्ते नैवं वक्तुमापद्यते, यदि क्षेत्रमेव 15 शालिसम्भवहेतुस्तत्र विनापि हलबलीवर्दादिसामग्रचा महत्यवग्रहेऽपि शालयो - ऽस्मिन् सम्भवेयुरिति । तदिदमर्थवादादिगत्यनभिज्ञस्य भवतो भाषितमित्यास्तामेतत् ।
20
न्यायमञ्जय
[ एकादशम्
यथा क्वचिदुचितोपचारवचनाराध्यमानगुणवद्ब्राह्मणकुले तत्कथाबहुले राजकुले कश्चित् सुजन्मा कञ्चिदग्रजन्मानं स्तौति 'अहो नु खल्वसौ ब्राह्मणो विद्याचरणसम्पन्नः' इति, तस्मिन् प्रसङ्गे तथाविध एवापरस्तमुत्साहयन् कथयति 'सम्भवति ब्राह्मणे विद्याचरणसम्पद्' इति, तत्र पिशुनश्छलवाद्याह यदि ब्राह्मणे विद्याचरणसम्पत् सम्भवति तर्हि व्रात्येऽपि ब्राह्मणत्वजात्यनपनयनात् सम्भवेदिति तत्रेदमतिव्यापकं ब्राह्मणत्वसामान्यं यतो विद्याचरण - सम्पदमत्येति च स्पृशति तद्योगाद् ब्राह्मणव्यक्तौ सम्भवतो विद्याचरणसम्पद्रूपस्यार्थस्य वक्त्राभिहितस्य सतस्तत्र वक्त्रभिमतामेवातिसामान्यहेतुतामारोप्यच्छलवादी प्रत्यवतिष्ठत इति ।
25
१४८
इदन्तु भवन्तं पृच्छामि भो महात्मन् !
स्वभावशुद्धा परिनिश्चितार्थंसंस्पर्शिनी पुण्यसहस्रलभ्या । नेदृशी सर्वजनानुकूला कल्याणिनी ते निरमायि वाणी ।।
उपचारच्छ्ललक्षणम्
धर्म विकल्प निर्देशेऽर्थ सद्भावप्रतिषेध उपचारच्छलम् ॥
अभिधानस्य धर्मोऽनेकप्रकारो मुख्यया वृत्त्या गौण्या वा लाक्षणिक्या
वा । यदर्थे प्रत्यायनं तदनेन विकल्पमानेन धर्मेण गौणेन लाक्षणिकेन वा निर्देशे प्रयोगे कृते योऽर्थंसद्भावप्रतिषेधो मुख्यार्थनिषेधः स उपचारनिमित्तं छलमुपचारच्छलम् ।
केनेदृशी सर्वजन्मनुकूलेति..