SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ] छलप्रकरणम् १४९ यथा मञ्चाः क्रोशन्तीत्युक्ते छलवाद्याह कथमचेतनाः काष्ठरचनात्मानो मञ्चाः क्रोशन्ति ? मञ्चस्थाः पुरुषा एते क्रोशन्ति न मञ्चा इति । अत्र समाधिः, वृद्धव्यवहाराच्छब्दार्थव्युत्पत्तिः । तत्र न केवलयैव मुख्यया वृत्त्या शब्दाः प्रवर्तमाना दृश्यन्ते, वृत्त्यन्तरव्यवहारस्यापि सुप्रवर्तितत्वात् । न च निनिमित्तमेव परशब्दं परत्र प्रयुक्तवन्तो वयम् । सहचरणादिसूत्रनिवेदित- 5 निमित्तनिकुरुम्बान्यतमनिमित्तपूर्वकत्वादस्य प्रयोगस्य स्थानादयं तद्वदुपचारः । सत्यम. गौणलाक्षणिकादिशब्दप्रयोगावगतिबाह्य एव य एवं प्रत्यवतिष्ठते । गौणलाक्षणिकयोः कथं विशेष इत्येतत् कथ्यताम् । सत्यम्, गोशब्दः स्वार्थमभिधाय सास्नादिमन्तं तदीयान् गुणानेव जाड्यमान्द्यादीन् न मूत्रादीन् लक्षयति, न तावत्येव विरमति, स तु सामानाधिकरण्येन वाहीकेऽपि प्रवर्तते, गौर्वाहीक इत्येवं प्रयुज्यमानः स गौणो भवति । यस्तु स्वार्थाभिधानानन्तरं तदितरम) गुणमगुणं वा लक्षयत्येव न सामानाधिकरण्येन परत्र प्रयुज्यते शब्दः, स लाक्षणिको भवति गङ्गायां घोषः प्रतिवसतीति । यथा चोक्तम् 'गौणे हि प्रयोगो न लक्षणायाम्' इत्यलं शास्त्रान्तरोद्गारगहनाभिः कथाभिः । 15 मुख्यमर्थमथ लाक्षणिकं वा गौणमप्यवगमय्य च शब्दः । लोकवेदविहितं व्यवहारं सन्तनोति तदभिज्ञमतीनाम् ॥ ___ सहचरणादिसूत्रनिवेदितेति । 'सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारण-सामीप्ययोग-साधनाधिपत्येभ्यो ब्राह्मण-मञ्च-कट-राज-सक्तु-चन्दन-गङ्गा-शाटक-न्न-पुरुषेष्वतद्भावेऽपि तदुपचारः ॥' इति । सर्वत्र यष्टिसाहचर्या यष्टिब्राह्मणः । मञ्चस्थाः पुरुषाः । कटा 20 वीरणाः कटशब्देनोच्यन्ते । वृत्ताद् यमो राजा इति । आढकमिताः सक्तव आढकशब्दवाच्याः । तुलया धृतं चन्दनं तुलाचन्दनम् । गङ्गायाः समीपे गङ्गायाम् । कृष्णेन गुणेन शाटकः कृष्ण इति । साधनाद् अन्नं प्राणा इति । कुलाधिपत्याद् अयं पुरुषः कुलमित्युच्यते। स तु सामानाधिकरण्येन बाहीकेऽपि प्रवर्तत इति । बाहीकं विशिष्टगुणसम्ब- 25 न्धेनान्यस्मात् पुरुषादवच्छेत्तमिति । गौणे हि प्रयोगो न लक्षणायामिति प्रभाकरलघुटीका । यस्य वाहीकस्य जाड्यादिगुणं प्रतिपादयति गोशब्दस्तस्य सामानाधिकरण्येन
SR No.002347
Book TitleNyayamanjari Part 03
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1984
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy