________________
१५० न्यायमञ्ज
[ एकादशम् कुर्यादाक्षेपं यश्च भाक्ते प्रयोगे वाच्यं मत्वार्थं तत्र वक्तुर्न दोषः । तेन त्वात्मीयं शब्दवृत्तानभिज्ञं रूपं व्यक्तं स्यादत्र वृद्धाः प्रमाणम् ।।
छलपरीक्षणम् एवं छलस्य विशेषलक्षणान्यभिधाय तत्परीक्षायामाक्षेपं करोति,
वाक्छलमेवोपचारच्छलं तदविशेषात् ॥ न खलु वागुपचारच्छलयोः कश्चिद्विशेषः । अनेकधा शब्दार्थे सम्भवति वक्तुरभिमतादर्थादन्यस्य कल्पनं तत्प्रतिषेधनञ्चोभयत्रापि समानम्, अवान्तरविशेषकृतनानात्वाभ्युपगमे वा तदानन्त्यप्रसङ्गः । अत्र समाधिमाह,
न तदर्थान्तरभावात् ।। नैतदेवम्, वाक्छलमेवोपचारच्छलमिति । ततोऽर्थान्तरत्वात्, वाक्छले हि नवकम्बल इति नवसु कम्बलेषु नवे च कम्बले मुख्यार्थ एव शब्दः, स राम इत्यादिवत् । ततस्त्वेकतरं वक्त्रनभिप्रेतं छलवादिना आरोग्य निषिध्यते ।
उपचारच्छले तु काष्ठसन्निवेशे मुख्यार्थे मञ्चशब्दः पुरुषे भक्त्या प्रवृत्तः । 15 मुख्यमभिधाय च गौणः प्रत्याय्यो भवति न त्वेष क्रमः साधारणशब्देष्विति
महान् भेदः । वाक्छले चार्थसत्तैव निषिध्यते कुतोऽस्य नव कम्बला इति । इह तु सतो मञ्चस्य क्रोशनशक्तिनिषिध्यते ।
__ समाधिरपि साधारणशब्दानभिज्ञतां परस्य प्रदर्शयता वाक्छले वाच्यः । उपचारच्छले तु गौणादिशब्दवृत्त्यनभिज्ञतामिति महान् विशेषः । 20 तस्य प्रयोगः गौणे, न पुनर्लक्षणायां गङ्गाशब्दोऽन्यत्र सामानाधिकरण्येन प्रयुज्यत इत्यर्थः।
भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे एकादशमाह्निकम् ।