________________
आह्निकम् ] छलप्रकरणम्
१५१ - अविशेषे वा किञ्चित्साधादेकच्छलप्रसङ्गः॥ ___ छलस्य द्वित्वमभ्यनुज्ञाय त्रित्वं भवता प्रतिषिध्यते, यतः सामान्यच्छलं पार्वे कृत्वा वागुपचारच्छलयोरभेदमुपहितवानसि। यथा चायं तदविशेषादिति त्रित्वप्रतिषेधस्तथा द्वित्वस्यापि किञ्चित्साधर्म्यस्य सामान्यच्छलेऽपि भावात् । तथा हि यदि तावद् वाचि निमित्तभूतायामिदं प्रवृत्तं छलमिदञ्चेति तदभेदं 5 मन्यसे तहि सामान्यच्छलमपि मा वोचः । तदपि हि न शरीरे मनसि बुद्धौ वा निमित्ते, अपि तु वाचि एवेति वाक्छलमेवैकं स्यात् । अथैवं सत्यपि तद्विशेषो दृश्यमानो न पराणुद्यते, सामान्यच्छलेऽपि न शब्दार्थोऽन्यथा कृतः किन्तु सामान्यस्य हेतुत्वमनुक्तमारोपितमिति पृथगिष्यते, तर्हि वागुपचारच्छले अपि भिद्यते एवेति दर्शितम् । अतो युक्तं भवत्विदम्, न चानन्त्यम् इयत्तानियम- 10 कारिणो निमित्तत्रयस्य दर्शितत्वात् । अवान्तरभेदकृतन्तु तदानन्त्यमिष्यत एव जातिवदित्यलं प्रसङ्गेन । तस्मात् परस्परविविक्तनिजस्वरूपमीदृक् छलत्रितयमेतदिहोपदिष्टम् । तस्य क्वचित् स्वयमपि क्रियते प्रयोगो वाच्यः परैरभिहितस्य तथा समाधिः ॥ .
इति श्रीमद्भट्टजयन्तकृतौ न्यायमञ्जर्यामेकादशमाह्निकम् ॥ 15