Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
१४२
न्यायमञ्ज
[ एकादशम्
भवत्वेवम्, असिद्धवर्गे तु कथमेष हेतुर्गण्यते ? साध्यधर्मप्रयुक्ता धर्मिणी वृत्तिरस्य नास्तीति चेत्, यद्येवं पञ्चानामपि तत्प्रयुक्तवृत्तिरहितत्वादसिद्ध एवैको हेत्वाभासः स्यात् ।
__ अथ सत्यपि प्रयोजकत्वे विपक्षवृत्त्याद्यवान्तररूपभेदनिबन्धनानैकान्तिक5 त्वादिव्यपदेशपञ्चकभाज इमे हेत्वाभासा इष्यन्ते, हन्त तहि प्रकृतोऽयं
हेतुर्मूर्तत्वादिति किमनैकान्तिक उच्यतामथ कालात्ययापदिष्ट आहोस्विद् विरुद्ध उत प्रकरणसम इति ? नैषामन्यतमोऽपि वक्तुं शक्यते एतल्लक्षणानुपपत्तेरिति चेत्, काममसिद्धोऽपि मा वादि, पक्षे वर्तमानत्वेन तल्लक्षणस्यानुपपत्तेरिति ।
आस्तां तर्हि षष्ठ एवायं हेत्वाभासः, सम्यग् हेतुतां तावद् यथोक्तनयेन नाश्नुत 10 एव, न च तेष्वन्तर्भवतीति, बलात् षष्ठ एवावतिष्ठते ।
____ कथं विभागसूत्रमिति चेत्, अतिक्रमिष्याम इदं सूत्रम् । अनतिक्रामन्तः सुस्पष्टदृष्टमपीममप्रयोजकं हेत्वाभासमपह्नवीमहि, न चैवं युक्तमतो वरं सूत्रातिक्रमो न वस्त्वतिक्रम इति ।
अथ वा न सूत्रकारनियमोल्लङ्घनं श्रेयः । प्रमाद्यन् खलु परिमितदर्शी 15 मादृशोऽन्यथा ब्रूयात्, न न्यायमहोदधेः पारदृश्वा भगवानक्षपादः । तदेनं हेत्वाभासमसिद्धवर्ग एव निक्षिपामः ।
· ननु पक्षे वर्तमानः कथं तत्र निक्षेप्तुं शक्यते । यथा साध्यधर्मप्रयोजकतयापक्षेऽपि वर्तितुं युक्तम्, तथा न वर्तत एवायं तत्रेत्यदूरविप्रकर्षण
भवत्येवायमसिद्धः । अत एवायमन्यथासिद्ध इत्युच्यते । यथा सिद्धः सिद्धो 20 भवति तथा न सिद्धः अन्यथा तु सिद्ध इत्यनया नीत्योत्तानवृत्तिमात्रलम्भेऽप्यय
मसिद्ध एव । अन्येषु तु हेत्वाभासेषु भङ्गयापि नान्तर्भवतीत्युक्तमेतत् । अथ वा सर्वहेत्वाभासानुवृत्तमिदमन्यथासिद्धत्वं नाम रूपमिति न षष्ठोऽयं हेत्वाभासः । तत्तु क्वचित् केवलमेव दृश्यते क्वचिद् व्यभिचारादिरूपान्तर
सहचरितम्, अतश्च व्यभिचारादिरूपापेक्षमेव पञ्चत्वमुपदिष्टवान् मुनिरिति न 25 विभागसूत्रविरोध इत्यलमतिविस्तरेण ।
तत्तु क्वचित् केवलमेव दृश्यत इति । यत्र केवलं दृश्यते तत्रासिद्ध एवान्तर्भाव इति भावः।
Loading... Page Navigation 1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240