________________
११८
न्यायमञ्ज
[ एकादशम्
यत,
10
वादलक्षणम्
न्यायपरीक्षाद्वारकवस्तुविचारयोग्यास्तिस्रः कथा वादिनो भवन्ति वादो जल्पो वितण्डेति । तत्र वादस्तावदुच्यते, प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः
पक्षप्रतिपक्षपरिग्रहो वादः ॥ पक्षप्रतिपक्षी व्याख्यातौ, तयोः परिग्रहोऽभ्युपगमो नियमः । एको वक्ति नित्यः शब्दः अपरस्त्वनित्यः शब्दः इत्याह, सोऽयं पक्षप्रतिपक्षपरिग्रहो वादः । एतच्च रूपं कथात्रयेऽपि साधारणमिति विशेषमाह प्रमाणतर्कसाधनोपालम्भ इति । प्रमाणैस्तर्केण च साधनं साधनोपालम्भश्चास्मिन् क्रियत इति प्रमाणतर्कसाधनोपालम्भः । न त्वीदृशी वितण्डा तस्याः प्रतिपक्षसाधनोपन्यासशून्यस्वभावत्वात् । तर्कस्य वादोपयोगित्वे शङ्कानिरासः
ननु प्रत्यक्षादेः प्रमाणस्य परप्रतोत्यनुपायत्वान्न तेन वादे साधनोपालम्भौ शक्यक्रियौ। तर्कस्य तु प्रतीतिसाधनत्वमपि तावन्न सम्भवति सम्भावनाप्रत्ययस्वभावत्वात् किमुत परप्रत्यायनाङ्गतेति नतरां तस्य साधनोपालम्भहेतुत्वम् । सत्यमेवम्, इह तु न प्रमाणशब्देन प्रत्यक्षादेरनमानमपि तु प्रमाणमूला अवयवा उच्यन्ते । तैश्च सिद्ध्युपालम्भौ क्रियेते, एवं तर्कस्य तु स्वतः साधनोपालम्भकरणकौशलशून्यात्मनोऽपि प्रमाणानुग्राहकत्वात् पारम्पर्येण तद्धेतोराशयशुद्धिप्रदर्शनार्थमुपादानम् । पञ्चावयवोपपन्नपदसार्थक्यम्
यद्येवं प्रमाणपदेनैव तन्मूलावयवप्रतिपादनात् पञ्चावयवोपपन्नग्रहणमतिरिच्यते ।
तत्र केचिदाचक्षते, प्रमाणतर्कसाधनोपालम्भ इति वादलक्षणे, छलजातिनिग्रहस्थानसाधनोपालम्भ इति च जल्पलक्षणे श्रवणाद् वादे सर्वात्मना छलादिनिषेधप्रसक्तौ कतिपयनिग्रहस्थानोद्भावनाभ्यनुज्ञानार्थं पञ्चावयवोपपन्न
__ वादलक्षणे कतिपयनिग्रहस्थानेति । पञ्चावयवोपपन्नं न न्यूनावयवमधिकावयवं वेति व्यवच्छेदो लभ्यत एव ।