________________
आह्निकम् ] तर्कप्रकरणम्
११९ ग्रहणम् । अनेन च 'हीनमन्यतमेनाप्यवयवेन न्यूनम्' । 'हेतूदाहरणाधिकमधिकम्'इति न्यूनाधिकयोरुद्भावनमनुज्ञायते । सिद्धान्ताविरुद्धग्रहणेनापि 'सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध ः' इति विरुद्धाख्यहेत्वाभासोद्भावनमनुज्ञातमित्येवं वादे त्रीणि निग्रहस्थानान्युद्भावनीयानि । सूत्रपदसार्थक्यप्रदर्शनम्
अन्ये वदन्ति, विरुद्ध एव हेत्वाभासो वादे चोद्यते नानैकान्तिकादिरिति । कथमेतद् युज्यते 'निग्रहस्थानेभ्यः पृथगुपदिष्टा हेत्वाभासा वादे चोदनीया भविष्यन्ति, इति भाष्यकारवचनात् प्रमाणपदेन च तन्मूलावयवाक्षेपात् प्रमाणाभासमूलनिरासे सति सकलहेत्वाभासोद्भावनमपि तत्र सिद्धमिति । सिद्धान्ताविरुद्धाग्रहणेन 'सिद्धान्तमभ्युपेत्यानियमात् कथा- 10 प्रसङ्गोऽपसिद्धान्त इत्यपसिद्धान्ताख्यनिग्रहस्थानानि वादे उद्भाव्यन्त इति तदनुपपन्नम्, न हि त्रीणि वा अष्टौ वा वादे निग्रहस्थानानि चोदनीयानीति चोदना वैदिकी, राजशासनं वा। वस्तुपरिशुद्धिसाधनं सर्वमेव तत्र प्रयोगार्हम् ।
अयन्तु विशेषः । जल्पे कस्याञ्चिदवस्थायां बुद्धिपूर्वकमपि छलादि- 15 प्रयोगः क्रियते, वादे तु वृथा तेषां प्रयोगः । भ्रान्त्या तु कथञ्चित् प्रयुक्तानामवश्यमुद्भावनम्, अनुद्भावने वस्तुपरिशुद्धेरभावात् । ... कथं तह-दं पदद्वयं 'सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः' इति अप
विरुद्ध एव हेत्वाभासो वादे चोद्यते नानैकान्तिकादिरिति कथमेतद् युज्यत इति । प्राक्पक्षे हि विरुद्ध एव हेत्वाभासो विशेषेणोपदिष्ट इतीतरानैकान्तिकादिहेत्वा- 20 भासप्रतिषेधोऽर्थादायात इति स्थितम्, तदनेन निराकरोति । ननु यद्यष्टौ निग्रहस्थानानि पञ्च हेत्वाभासा होनाधिकापसिद्धान्तैः सह तदा भाष्यविरोधः । भाष्यकारेण हि सिद्धान्ताविरुद्धपदव्याख्यानावसरे "सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः" इति विरुद्ध एव हेत्वाभासो विशेषेण संगृहीत इति । मैवम् । 'सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः' इति भाष्यकारेण पठितं सूत्रप्रतीकसाम्यात् लेखकदोषेणासौ पाठो नास्त्यत्रेति 25 अष्ट्रनिग्रहस्थानवाद्यभिप्रायः।