________________
न्यायमञ्जयां
१२०
[ एकादशम् सिद्धान्तादिसम्यग्दूषणदिक्प्रदर्शनेनैवम्प्रकारवस्तुशुद्धयनुगुणनिग्रहस्थानजाताद्यनुज्ञानार्थमेवेत्यभियुक्ताः । अप्रतिभाविक्षेपादयो हि न वादे पराजयहेतवः, क्षणान्तरेणाप्यागत्यानुस्मृत्य च साधनमुपालम्भं वा तत्र वदन्न पराजीयते । प्रतिज्ञाहान्यादि तु सम्यक्पराजयकारणमखिलमाभ्यां पदाभ्यामभ्यनुज्ञातमत्रेति ।
नन्विदानी प्रमाणतर्कग्रहणमपार्थकं पञ्चावयवोपपन्नपदेनैव प्रमाणमूलावयवोपदेशाद् वस्तुपरिशुद्धयनुगुणनिग्रहस्थानाभ्यनुज्ञानाच्च किमिव नोक्तम् ? न । अभिप्राये नैर्मल्यनिवेदनद्वारकवादजल्पविवेकप्रतिपादनार्थत्वात्
स्वप्रतिपत्तिसाधनमपि प्रत्यक्षादि वादे प्रयोक्तुमुचितमाशयशुद्धिमुपदर्शयितुम् । 10 अत्र वस्तुनि मम प्रथमं तर्क इत्थं प्रवृत्त आसीत्ततः प्रमाणमिदं प्रवृत्त
मित्येवमपि तत्र वक्तव्यमत एव चान्यतरपक्षनिर्णयावसान एव भवति वादः, न जल्पवदलोकदूषणडम्बरविरचितपरपरिभवपर्यवसानोऽपीति तथा बुद्धिपूर्वमाभासानामप्रयोग इति । निर्मत्सरकथात्वमस्योक्तमित्यकलुषाकूतकथनाय प्रमाणतर्कपदम् ।
अपि च साधनोपलम्भव्यतिषङ्गप्रतिपादनमपि तस्य फलम्, उभावपि परस्परमनुबन्धेन वादिभ्यां परीक्षमाणौ पक्षप्रतिपक्षौ वादतां प्रयोजयतः, न तु स्वगृहे शास्त्रे वा विविच्यमानौ । प्रमाणैरेव जल्पे व्यवहार इति नियमशङ्कानिरसनमपि तत्पदोपादानप्रयोजनमुक्तमन्यैरिति कृतमतिविस्तरेण, सर्वथा वादलक्षणं सर्वं सुस्थम् । वादञ्च निर्णयफलार्थिभिरेव शिष्यसब्रह्मचारिगुरुभिः सह वीतरागैः । न ख्यातिलाभरभसप्रतिवर्धमानस्पर्धानुबन्धविधुरात्मभिरारभेत ॥
यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ।। - यथोक्तोपपन्नग्रहणेन सर्वातिदेशे वादजल्पयोरविशेष इति शङ्कमानाः
केचन पक्षप्रतिपक्षपरिग्रहमात्रातिदेशमेव व्याचक्षते । इयतस्तु पूर्वसूत्रानुवृत्त्या25 ऽपि सिद्धर्मन्दफलमेव यथोक्तोपपन्नवचनं भवेदिति समस्तातिदेश एव वरम् ।
न च तत्रापि वादजल्पयोः साम्यं गम्यमानार्थम् । अतिदेशाच्छौत एवार्थोऽतिदिश्यते न गम्यमानस्तत्कृत एव च तयोर्भेदः । तथा च प्रमाण