________________
आह्निकम् ]
तर्कप्रकरणम्
१२१
तर्कसाधनोपालम्भ इत्यत्र गम्यमानोऽर्थोऽभिप्रायनियमः स नातिदिश्यते । सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न इत्यत्रापि बुद्धिपूर्वजात्यादिप्रयोगप्रतिषेधतदुद्भावननियमरूपो गम्यमानोऽर्थः सोऽपि नातिदिश्यत इति कुतस्तयो - रविवेकः । अत एव च बुद्धिपूर्वकप्रयोगानुज्ञानाय छलजातिनिग्रहस्थानसाधनोपालम्भ इत्युक्तम् । भवत्वेवं छलादीनां त्वसदुत्तरत्वात् कथमिव साधनोपालम्भ हेतुत्वम् ? परपक्षप्रतिक्षेपद्वारकमिति चेत्, न, असदुत्तरत्वेन प्रतिक्षेपेऽपि तेषामसामर्थ्यात् । एवमपि च साधनग्रहणमनर्थकमेवेति, सत्यमेवम्, किन्तु कस्याञ्चिदवस्थायां स्वप्रतिपत्तिसाधनोपहिततत्त्वज्ञानरक्षायै तान्यपि व्याप्रियन्ते । यदा जानन्नपि परपक्षक्रशिमानं स्वपक्षे द्रढिमानञ्च क्वचिदवसरे परप्रयुक्ते साधने दूषणं सपदि न पश्यति स्वपक्षसाधनञ्च झगिति न स्मरति तदा छलादिभिरप्युपक्रम्य परमभिभवत्यात्मानञ्च रक्षतीति ।
ननु यदि परश्छलादीनि जानीयात् तेषु चानुरूपमुत्तरमभिदधीत कथं जीयेत प्रत्युत जयत्येव, सत्यम्, तथाप्येकान्तपराजयाद् वरं सन्देह इति युक्तमेव तत् प्रयोगेण स्फुटाटोपकरणम् ।
नवीदृशि प्रयोजनानि जिगीषतो जनस्य जनपदसदसि भवन्ति, तस्यापि न निपुणमतिसदसि मुमुक्षोस्तु दूरापेतैव कथेयमिति कथमिह मोक्षशास्त्रे जल्पाद्युपदेशः ?
,
5
तदा
जगज्जालमिन्द्रजालपण्डितविलसितमिति जानन्नप्याशाभ्यो यदि तदुपेक्षते, न तिरस्करोति, सद्यः सम्यक् साधनाप्रतिभासेऽपि यदि छलादिभिरेनं न शमयति, तदा तस्मिन् गते तत उत्थाय शिष्यगणा ब्रूयुः कष्टमस्थाने क्लिष्टाः स्मः ।
न्या० म० १६
10
15
नैतदेवम्, मुमुक्षोरपि क्वचित् प्रसङ्गे तदुपयोगात् । यथोक्तं तत्त्वाध्यवसायसंरक्षणासीनम् अनेकशिष्यगणोपास्यमानं रहस्यतत्त्वमुपदिशन्तं शान्तमानसमाचार्यम् अनार्यः कश्चिद् विपश्चिदाभासः कुतश्चिदागत्य दुरधिगत- 20 कतिपयाक्षरपरिचयजनितगुरुतरगर्वगद्गदया गिरा भोस्तपस्विन् ! किमाख्यायते हुङ्कारम्, आन्वीक्षिकी सरलमतिप्रियेयं विद्या, क्व वेदाः, क्व वेदप्रामाण्यम्, क्वात्मज्ञानम्, क्वापवर्ग इत्यादि मन्दं विहस्य सहस्य सहसा दृष्टमेघ इव प्रकटितकाण्डदण्डकाशनितम्बवित्रासिताश्रममृगवर्गमुद्ग्राहयन्नाकुलयति,
25