SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 10 न्यायमञ्ज [ एकादशम् योऽसावस्माकमाचार्यः प्रख्यातो न्यायवित्तमः । अद्य त्वागत्य सोऽन्येन पण्डितेन पराजितः । तच्छ्रुत्वा जन इतरोऽपि सत्पथस्याशैथिल्यात् सपदि तमेव मा ऽनुयासीत् । तन्नूनं परिभवभूमिकामसह्यां नेतव्यः सदसि स वावदूकपाशः ।। तद्विघातघटने निरर्गलं जल्पमन्त्रमुपदिष्टवान् मुनिः । आनुषङ्गिकमपि प्रयोजनं तस्य रागिजनतासु वर्णितम् ।। वितण्डालक्षणम् स प्रतिपक्षस्थापनाहीनो वितण्डा ॥ स एव यथोक्तलक्षणको जल्पो वितण्डा भवति । को विशेष इति चेत्, आह 'प्रतिपक्षस्थापनाहीनः' इति । उत्तरपक्षवादी वैतण्डिकः प्रथमवादिप्रसाध्यमानपक्षापेक्षया 'हस्तिप्रतिहस्ति' 'न्यायेन प्रतिपक्ष इत्युच्यते । तमसावभ्युपगच्छत्येव न तत्र साधनमुपदिशति परपक्षमेवाक्षिपन्नास्ते । तहि साधनाद् विपक्षोऽपि सोऽस्य नास्त्येवेति प्रतिपक्षहीनो वितण्डेत्युच्यतां किं स्थापनाग्रहणेन ? न, अभ्युपगममात्रेण तद्भावात् तमनभ्युपगम्य प्रलपतः कस्तस्य शृणुयात् । औपचारिको वा परमतपराकरणरूप एवास्य पक्षः, तस्मिन् हि सति स्वपक्षो हि तस्य सिध्येदिति । परमताक्षेपप्रवणप्रवृत्तश्च बलाद् द्वितीयपक्षवाद्येव वैतण्डिक इति। तदेवं पक्षोऽस्यास्तीति साधनन्तु नास्तीति सम्यक् सूत्रितं ‘स प्रतिपक्षस्थापनाहीनो वितण्डा' इति । इत्युदाहृतमिदं कथात्रयं यत् परस्परविविक्तलक्षणम् । स्थूलमप्यनवलोक्य कथ्यते वाद एक इति शाक्यशिष्यकैः ।। हि साधनाद् विना पक्षोऽपि सोऽस्य नास्तीति । साध्यो हि पक्षो भवति न साधनशून्य इति । औपचारिको वा परमतनिराकरणरूप इति । परमतनिराकरणं परमत प्रतिषेधवाक्यम्, तस्य च यद्यपि स्वतः साध्यत्वाभावात् पक्षत्वं नास्ति तथापि पक्षसिद्धिहेतुत्वेनोपचरितं पक्षत्वम्, पक्ष एव च प्रतिपक्षः । तदेवं पक्षोऽस्यास्तीति वदन् । स प्रतिपक्षस्थापनाहीन इत्यनेन प्रतिपक्षस्य स्थापना प्रतिपक्षस्थापना, तया हीनम् । न प्रतिपक्षेण स्वपक्षणापोति प्रतिपादितं भवतीति मन्यते, अन्यथा हि स्थापनापदं निरर्थक स्यादिति ।
SR No.002347
Book TitleNyayamanjari Part 03
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1984
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy