________________
आह्निकम् ]
हेत्वाभासविभजनम्, तल्लक्षणञ्च
पक्षधर्मत्वादीनि पञ्च लक्षणानि हेतोरुक्तानि तेषामेकैकापायात् पञ्च हेत्वाभासा भवन्तीति तान् दर्शयितुमाह,
सव्यभिचार विरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासाः ॥
अत्र हेत्वाभासश्रुतिरेव निर्वचनसहितासामान्यलक्षणं बोधयति । अहेतवो " हेतुवदाभासन्त इति हेत्वाभासाः, लक्षणैकदेशयोगाच्च हेतुवदाभासनमहेतोरप्युपपद्यते । सकललक्षणापायेऽपि पञ्चमीनिर्देशादिर्भ्रमहेतुरित्येके । सव्यभिचारादिपदपर्यन्तर्वार्तनी तु सैव श्रुतिर्विभागमवगमयति प्रमाणश्रुतिवदित्युक्तम् । पक्षधर्मादिलक्षणानाञ्च क्रमनियमाभावात् साध्यसमविरुद्धसव्यभिचारातीतकालप्रकरणसमा हेत्वाभासा इति पाठो नाश्रितः ।
प्रमेयप्रकरणम्
ननु य एव हेत्वाभासा इति शाक्या ? न, प्रत्यक्षागमबाधितस्य सप्रतिपक्षस्य च हेतोः पूर्वप्रदर्शितत्वात् ।
१२३
नन्वेकस्यैव रूपद्वयवैकल्यात् कथं न षष्ठादयस्तत्प्रभेदाः स्युः, यथा नित्यः शब्दश्चाक्षुषत्वादिति । एष हि पक्षे वृत्त्यभावादसिद्ध उच्यतामुत सामान्यादिविपक्षादप्रच्युतेः सव्यभिचारः, उत जात्यन्तरमेव ताभ्यामिति ।
सव्यभिचारलक्षणम्
तेषां सव्यभिचारस्तावदुच्यते ।
नैतदेवम्, एकैकरूपापायनिमित्तभेदपञ्चकप्रतिपादने कृते द्वित्रिरूपापायान्न रूपान्तरमवतरति किन्तु तेषामेव समावेशः स्यात् । अपि च प्रथमगृहीतान्यतमरूपवैकल्यलब्ध के हेत्वाभासरूपेऽस्मिन् किं रूपान्तरनिरूपणेनेत्यास्तामेतत् ।
20
नन्वप्रयोजको नाम षष्ठो हेत्वाभास: समस्तीति न पुनरपि पञ्चत्वम् । न, तस्यान्यथासिद्ध एवान्तर्भावं वक्ष्यामः । अवान्तरभेदविवक्षायान्तु हेत्वाभासा इति सिद्धम् ।
10
अनैकान्तिकः सव्यभिचारः ॥
व्यभिचार एकत्र व्यवस्था नियम:, तेन सह वर्तते इति सव्यभिचारः,
15
25