________________
१२४
न्यायमञ्जयां
[ एकादशम् विपक्षादप्रच्युत इत्यर्थः । एकस्मिन्नन्ते भवन् ऐकान्तिकस्तद्विपर्ययादनकान्तिक इति स एवार्थः । एवमिह लक्ष्यलक्षणपदयोर्यथाकाममभ्युपगमो न प्रत्यक्षादिवद् व्यवस्थया । सव्यभिचारपदे लक्ष्याभिधायिनि लक्षणवचनमैकान्तिकपदम, अनैकान्तिकपदे तु लक्ष्यवाचिनि सव्यभिचारपदं लक्षणप्रतिपादकम्, प्रसिद्धाप्रसिद्धविभागापेक्षया पिककोकिलवद् द्रष्टव्यम् । पिकः कोकिल इत्युक्ते यस्य पिकशब्दार्थः प्रसिद्धः स ततः कोकिलशब्दार्थमवभोत्स्यते प्रसिद्धकोकिलशब्दार्थश्च पिकशब्दार्थमिति ।
__ आह, भवत्वेवम्, इदन्तु चिन्त्यताम्, अनैकान्तिक इति किमयं पर्युदासः प्रसज्यप्रतिषेधो वा ? किञ्चातः ? पर्युदासपक्षे स्वपक्षनियतादेकान्तिकादन्यः 10 स एवानकान्तिक इति स एवैको हेत्वाभासः स्यात्, अतश्च पञ्चसंख्या विप्र
लुप्यतेति । प्रसज्यप्रतिषेधे त्वैकान्तिकाभावस्य निवृत्तिरूपस्य हेत्वाभासता भवेत्, न लक्ष्यत्वेनाभिमतस्य विपक्षवृत्तेर्हेत्वन्तरस्य प्रमेयत्वादेरिति ।
उच्यते, प्रश्न एवायमनुपपन्नः । संशयानो हि परं पृच्छति, संशयश्चोभयथादर्शनाद् भवति । न च नामपदसम्बद्धस्य नजो द्वयी वृत्तिर्दृष्टा । अश्राद्ध15 भोजीत्यादौ हि भुजिना नञ् संबध्यते श्राद्धं न भुङ्क्त इति, न तु नाम्रा
श्राद्धेनेति । आख्यातेनापि प्रयोज्यमानः क्वचित् प्रकरणसामर्थ्यानुरोधात् . प्रत्ययार्थसम्बन्धमवधूय धात्वर्थमेव केवलमालिङ्गन् पर्युदासवृत्तिर्भवति, यथा 'नेक्षेतोद्यन्तमादित्यम्' इति । न तु नाम्ना सम्बध्यमानः क्वचिदपि पर्युदास
वृत्तिमुल्लङ्घ्य प्रसज्यप्रतिषेधमात्रतामवलम्बमानो दृश्यते, अब्राह्मणादौ 20 सर्वत्र तदन्यावगतिदर्शनादिति कुतस्त्यः संशयः? अथवा किमनयावान्तरचिन्तया
यथा पृष्टं प्रकृत एवोत्तरमुच्यते, एकस्मिन्ननित्यपक्षे वा नियत ऐकान्तिक एकपक्षवृत्तिरुच्यते, ततोऽन्यः पक्षद्वयवृत्तिरनैकान्तिको भवति, एवं न सर्वे
हेत्वाभासलक्षणे यथा नेक्षेतोद्यन्तमादित्यमिति । अत्र हि ईक्षणसम्बद्धन, ततो ईक्षणादन्यो धात्वर्थः प्रतिपद्यते सङ्कल्पाख्यः, नेक्षेतानीक्षणसङ्कल्पं कुर्यादित्यर्थः । 25 प्रकरणसामर्थ्यानुरोधादिति । तत्र हि तस्य ब्रतानीत्युपक्रमः, नेक्षतोद्यन्तमादित्यमित्यादीनां
प्रजापतिव्रतानां प्रतिपादनात् । व्रतशब्दश्च विशिष्ट एव सङ्कल्पे रूढ इति तद्वशातत्तः प्रकृतिप्रतिपादितेऽर्थे वृत्तिः