________________
आह्निकम् ] तर्कप्रकरणम्
१२५ हेत्वाभासाः पक्षद्वयवृत्तय इति न संख्याहानिः । अतः पर्युदासपक्षे तावन्न दोषः । प्रसज्यप्रतिषेधेऽप्यैकान्तिको न भवति स एवाहेतुरिति न निवृत्तिमात्रपरत्वम् । अश्राद्धभोजीति कृता पुरुष उच्यते न श्राद्धभोजनाभावमात्रम्, एवमिहापि तद्धितेनैकान्तनियतताप्रतिषेधविशिष्टो हेतुरेवोच्यते नाभावमात्रम्, इत्येव मुभयथापि न दोषः । तस्योदाहरणम्, अनित्यः शब्दः प्रमेयत्वादिति । एष हि 5 नित्यानित्यपक्षयोरन्यतरस्मिन्नपि न नियत इति विपक्षवृत्तित्वादनैकान्तिकः, तदेवं व्यतिरेकाख्यहेतुलक्षणशून्योऽनैकान्तिक उक्तो भवति ।।
ननु षट्प्रकाराः परैरनैकान्तिका इष्यन्ते । सपक्षकदेशवृत्तिविपक्षव्यापी, विपक्षकदेशवृत्तिः सपक्षव्यापी, उभयपक्षैकदेशवृत्तिः, उभयपक्षव्यापी, साधारणश्चतुष्प्रकारः, असाधारणो विरुद्धाव्यभिचारी चेति स कथमिह न 10 निर्दिश्यते ?
उच्यते, सपक्षव्याप्यादिभेददर्शनं तावदप्रयोजनकमशक्यञ्च हेत्वाभासानामवान्तरभेदेनानन्त्यात् । विपक्षाद् व्यावृत्तिर्यस्य नास्ति स सव्यभिचार इत्यन्यतमहेतुरूपरहितत्वमनैकान्तिकलक्षणमिह विवक्षितम्, तच्चोक्तमेव किमवान्तरभेदपरिगणनेन। असाधारणविरुद्धाव्यभिचारिणौ तु न सम्भवत एव 15 हेत्वाभासाविति न व्याख्यायेते ।
___ ननु साधारणादसाधारणस्यापि गन्धवत्त्वादेः संशयहेतुत्वदर्शनात् कथमसम्भवः ? अनेकधर्मोपपत्तेश्च संशयो भवद्भिरपि व्याख्यायत एव ।
· नैतदेवम्, उभयविशेषसहचरितधर्मदर्शनं हि तदनुस्मरणप्रायं संशयमुपजनयति, असाधारणस्तु असाधारणत्वादेव न तत्सहचरः कदाचिदुपलब्ध 20
ननु षट्प्रकाराः परैरनैकान्तिका इष्यन्त इति । सपक्षकदेशवृत्तिः, यथा अगौरयं विषाणित्वादिति; विपक्षव्यापी चायम्, सर्वेषु गोषु विषाणित्वस्य सद्भावादिति । विपक्षकदेशवृत्तिः सपक्षव्यापी यथा गौरयं विषाणित्वादिति; सर्वेषु गोषु सपक्षेषु विषाणित्वस्य भावादगोषु च विपक्षेषुकेषुचिन्महिषादिषु भावात् अश्ववादिषु चाभावात् । उभयपक्षैकदेशवृत्तिर्यथा नित्यः शब्दः स्पर्शवत्त्वादिति, नित्येष्वाकाशादिषु सपक्षेषुस्पर्शवत्त्वस्य अभावात् 25 परमाण्वादिषुच भावात् सपक्षकदेशवृत्तिता, विपक्षेषु चानित्येषु बुद्धयादिष्व भावाद् घटादिषु भावाद् विपक्षकदेशवृत्तित्वम् । उभयपक्षव्यापी यथा नित्यः शब्दः प्रमेयत्वादिति ।