________________
१२६
न्यायमञ्जर्यां
[ एकादशम्
इति कथं संशयहेतुः ? कथं तर्ह्यनेकधर्मोपपत्तेरिति वर्णयिष्यते ? वर्णितमेतत् । वस्तुनो हि विशेषधर्मः कश्चिदसाधारणः केनापि धर्मान्तरेण सहचरितो दृष्टः । सोऽयं शब्दे विभागजत्वाख्यो धर्मः केनचिद् धर्मान्तरेण द्रव्यत्वेन गुणत्वेन वा सहचरितो भवेदितीत्थमनेकधर्मोपपत्तेः संशयो वर्णितः । तदिहापि गन्ध5 वत्त्वमसाधारणमित्थमेव यदि संशयहेतुतया वर्ण्यते तर्हि साधारणाद् वस्तुधर्मादेव संशयो भवेन्नासाधारणाद् गन्धवत्त्वात् । न हि तन्नित्यानित्ययोरन्यतरेणापि सहचरितमुपलब्धम् । वस्तुधर्मस्तु धर्मान्तरानुयायी दृश्यत इति वस्तुधर्मत्वमेव तत्कारणमतो नित्या भूर्गन्धवत्त्वादित्यसाधारणानैकान्तिको न वक्तव्यः । विरुद्धाव्यभिचार्यपि न वाच्य एव, एकत्र धर्मिणि परस्परविरुद्धद्वयप्रयोजकहेतु10 द्वयोपनिपातस्यानुपपत्तेः ।
,
ननु प्रत्यक्ष वायुः स्पर्शवत्त्वाद् घटवत्; अप्रत्यक्षोचायुः अरूपत्वादाकाशवत् इत्यस्ति हेतुद्वयसन्निपातः स एव च विरुद्धाव्यभिचार्युच्यत इति । अत्र तावदेतदेव वक्तव्यम्, कोऽयमपूर्वः प्रामाणिकव्यवहार ईदृशो यदनुमानेन प्रत्यक्षत्वमप्रत्यक्षत्वं वा साध्यत इति । इन्द्रियजप्रमितिविषयो हि प्रत्यक्षोऽर्थो भवति । स एव वायुर्यदीन्द्रियजे प्रत्यये प्रतिभात्येव किमनुमानेनेति । किं वानयोरन्यतरो हेतुरवश्यमप्रयोजकः, वस्तुनो द्वैरूप्यानुपपत्तेः । हेतौ च प्रयुक्ते तद्गुणदोषपरीक्षणमेव प्रतिवादी विधत्ताम्, कोऽवसरः प्रतिहेतूपन्यासस्य ?
विडम्बनार्थस्तदुपन्यास इति चेत्, न, विडम्बनोपन्यासस्य जात्युत्तरप्रकारत्वात् । इह च हेत्वाभासा वास्तवा एवानुमानदोषाः प्रतिपाद्यन्ते, न च 20 विरुद्धाव्यभिचारी नाम वास्तवो हेतुदोष:, एकत्र प्रयोजकविरुद्धहेतुद्वयसमावेशासंभवस्योक्तत्वात् ।
15
25
कथं तर्हि प्रकरणसम इति चेत्, तत्रैव विशेषं वक्ष्यामः । अथ हेतुप्रयोगरहितोभयवादिपरिगृहीतपक्षप्रतिपक्षोपन्यासमात्रं विरुद्धाव्यभिचारिणो रूपमुच्यते ? सोऽयं विप्रतिपत्तेः संशयो भवति, न हेत्वाभासादस्मादिति ।
अपि च संशयजननमनैकान्तिकलक्षणमुच्यते चेत् ? काममसाधारणस्य विरुद्धाव्यभिचारिणो वा यथा तथा संशयहेतुतामधिरोप्य कथ्यताम