________________
१२७
आह्निकम् ]
तर्कप्रकरणम् नैकान्तिकता, न तु संशयजनकत्वं तल्लक्षणमिन्द्रियादेरपि तज्जनकत्वेन तथाभाव प्रसक्तः, अपि तु पक्षद्वयवृत्तित्वमनै कान्तिकलक्षणम्, स तु पक्षद्वयवृत्तित्वात् संशयमपि जनयतीति वस्तुस्वभावोऽयम्, अतोऽसाधारणविरुद्धाव्यभिचारिणोः कथञ्चित् संशयहेतुत्वेऽपिपक्षद्वयवृत्त्यभावान्नानैकान्तिकवर्गेऽन्तर्भावः। क्व तहि तावन्तर्भविष्यतः ? जात्युत्तराणामानन्त्यात् तत्रेति वक्ष्यामः । । तस्मादसाधारणसंज्ञकस्य हेतोविरुद्धाव्यभिचारिणो वा ।
विपक्षवृत्तित्वमतर्कयन्तो वदन्त्यनैकान्तिकतां नयज्ञाः ॥ विरुद्ध लक्षणम्
सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ॥ सपक्षविपक्षयोवृत्त्यवृत्ती हेतौ लक्षणमुक्तम्, ते यस्य विपर्यस्ते दृश्येते 10 यः सपक्षे न वर्तते विपक्षे च वर्तते स साध्यविपर्ययसाधनाद् विरुद्धो भवति, सोऽयमुच्यते सिद्धान्तमभ्युपेत्येति । सिद्धान्तशब्दो यद्यपि धर्मविशिष्टे धर्मिणि व्याख्यातः, अयमित्थमित्यभ्युपगमविषयीकृतोऽर्थः सिद्धान्त इति, तथापीह तदेकदेशसाध्यधर्मविषयो लक्ष्यते। तं सिद्धान्तसाध्यधर्ममभ्युपगम्य यो विरुणद्धि व्याहन्ति, तद्विपर्ययं साधयति स विरुद्ध इत्यर्थः।
15 ननु समानकर्तृकयोः क्त्वाप्रत्ययः स्मर्यते, इह च हेतोरचेतनस्याभ्युपगमे कर्तृत्वासम्भवात् पुरुषस्तत्कर्ता भवेत्, सिद्धान्तञ्च विरुणद्धि हेतुरिति भिन्नकर्तृकत्वम्, उच्यते, समानकर्तृकत्वसिद्धये हेतोरेवाभ्युपगमे कर्तृत्वमुपचाराद्वर्णयिष्यते, हेतुबलात् पुरुषेणाभ्युपगमः क्रियमाणो हेतुनैव कृतो भवति। एवं च स एवाभ्युपगन्ता स एव विरुणद्धीति न भिन्नकर्तृकत्वम्। 20
ननूपचारपरिग्रहश्चेदभिमतस्तदत्र त्रितयं वक्तव्यम्, साध्येऽर्थे प्रमाणबाधः, निमित्तम्, प्रयोजनञ्चेति । साध्येऽर्थे प्रमाणबाध उक्तः, एवं हेतोरचेतनत्वं निमित्तमप्यस्ति हेतुसाधनको ह्यपगम इति, प्रयोजनन्तु विशेषविरुद्धानां हेत्वाभासत्वनिवारणम् । सिद्धान्तशब्दस्य समुदायवाचिनो यदेकदेशेऽवस्थापनं तस्यापि विशेषविरुद्धव्यवच्छेद एव फलम् । विशेषविरुद्धानां हि . हेत्वाभासत्वाभ्युपगमे सर्वानुमानोच्छेदप्रसङ्गः । न हि तथाविधो हेतुरिह