________________
१२८ न्यायमञ्ज
[ एकादशम् जगति कश्चिदवाप्यते यः साध्यसिद्धयेऽभिधीयमानो धर्मस्य वा धर्मिणो वा विशेषं न कञ्चन बाधते । तथा हि अनित्यः शब्दः कृतकत्वादिति सकलतार्किकगृहप्रसिद्ध एव हेतुरनित्यतां साधयन्नपि यद् यत् कृतकं तत्तदश्रावणं दृष्टम्, यो
यः कृतकः स स व्योमविशेषगुणो न भवतीति धर्मिणो विशेषं बाधत 5 एवेत्यहेतुः स्यात्, न चैवं युक्तमिति न विशेषविरुद्धो नाम हेत्वाभासोऽभ्युपगन्तव्यः, किन्तु साध्यस्वरूपविपर्ययसाधन एवेति ।
__ अत एव यथा तीर्थान्तरे वर्ण्यते विरुद्धश्चतुष्प्रकारः, धर्मस्वरूपविपरीतसाधनः, धर्मिस्वरूपविपरीतसाधनः, धर्मविशेषविपरीतसाधनः, धर्मिविशेष
विपरीतसाधन इति, तथेह नेष्यतेऽतिप्रसङ्गस्य दर्शितत्वादिति । अस्योदाहरणं 10 नित्यः शब्दः कृतकत्वादिति ।
___ नन्वेकैकलक्षणापायात् पञ्च हेत्वाभासा इत्युक्तम् । अस्य च हेतोरुभे लक्षणे न स्तः, यथा ह्यस्य सपक्षे वृत्तिर्नास्ति तथा विपक्षादपि व्यावृत्तिः । यदि हि सपक्षादिव विपक्षादपि व्यावृत्त एव भवेद् गन्धवत्त्ववदसाधारण
एव स्यादिति । सत्यमेवम्, किन्तु विपक्षादव्यावृत्तिर्व्यभिचारं प्रति 15 प्रयोजकतां प्रतिपद्यते, प्रतिपक्षगामी हि व्यभिचरित इत्युच्यते । सपक्षे वृत्ति
विच्छेदस्तु विपर्ययसिद्धौ प्रयोजक इति सत्यामपि विपक्षवृत्तौ सपक्षवृत्तिविच्छेदनिबन्धनमेवास्य विरुद्धत्वमुच्यते विपक्षादप्रच्युतः स्वसाध्यमेव न साधयेत् सपक्षे त्ववर्तमानोऽसौ विपरीतमपि साधयतीति तल्लक्षणापायकृत
विरुद्धश्चतुष्प्रकार इति । धर्मस्वरूपविपरीतसाधनः, यथा नित्यः शब्दः कृतकत्वा20 दिति । धर्मिस्वरूपविपरीतसाधनः, यथा समवायो धर्मी द्रव्यादिभ्यो व्यतिरिच्यत इति
साध्यम्, इहप्रत्ययहेतुत्वात् संयोगवदिति; इहप्रत्ययहेतुत्वं संयोगत्वेन सह व्याप्तमुपलब्ध दृष्टान्त इति समवायस्यासमवायरूपतां साधयति । धर्मविशेषविपरीतसाधनः, यथा परार्थाश्चक्षुरादयः सङ्घातत्वाद् शयनासनादिवदिति । सङ्घातत्वस्य संहतपरार्थत्वेन शयनादिषु
व्याप्तस्योपलम्भाच्चक्षुरादिष्वपि संहतपरार्थत्वं साधयन्नसंहतपरार्थतारूपधर्मविपर्यय25 साधनः। धर्मिविशेषविपरीतसाधनः, यथा न द्रव्यं न गुणः कर्म वा भावः सत्प्रत्ययहेतुत्वात्
सामान्यविशेषवदिति । अयं हेतुर्यथा सत्ताया द्रव्यादिवैलक्षण्यं साधयति तथा सत्प्रत्ययकर्तृत्वं विशेषमपि बाधते, गोत्वादिषु सामान्यविशेषेशु तस्यासम्भवादिति ।