________________
आह्निकम् ] तर्कप्रकरणम्
१२९ मेवास्य विरुद्धत्वमाचक्षते, इत्यलं सूक्ष्मेक्षिकया। तदित्थमुक्तं सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध इति ।
अन्ये त्वन्यथा व्याचक्षवे किल साध्यधर्मविपर्ययसाधकवद् अपसिद्धान्तप्रतिज्ञाविरोधादयोऽपि सिद्धान्तविरोधिनः सङ्ग्रहीतुं युक्ता एव । ते चैवं व्याख्यायमाने न संगृहीताः स्युः । क्त्वाप्रत्ययसिद्धान्तशब्दौ च न समन्वितौ स्याताम् । 5 तस्मादभ्युपगतसिद्धान्तविरोधी विरुद्ध इति सूत्रार्थे वणिते अभ्युपगतं सिद्धान्तं यो विरुणद्धि स विरुद्धः, तत्कालोपात्तप्रतिज्ञाविषयीकृतं वा अवसरान्तरव्यवस्थापितं वेत्येतत्सङ्ग्रहश्च कृतो भविष्यति । सिद्धान्तशब्दश्च न सङ्कोचितो भविष्यति । क्त्वाप्रत्ययस्त्वसङ्गतत्वादुपेक्ष्यत एव भिन्नकर्तृकत्वादानन्तर्यस्य गम्यमानस्य चानुपयुक्तत्वादिति । तथा च भाष्यकारेण पूर्वाभ्युपगतसिद्धान्ता- 10 नुगुणमेवोदाहरणमुक्तम् 'सोऽयं विकारो व्यक्तेरपैति नित्यत्वप्रतिषधात्, अपेतोऽप्यस्ति विनाशप्रतिषेधात्' इति । अत्र हि प्रतिषिद्धनित्यधर्मत्वादित्ययं हेतुर्व्यक्तेरपेतोऽपि विकारोऽस्तीत्यम सिद्धान्तं विरुणद्धि अनेन वा विरुध्यत इति ।
एतत्त्वहृदयङ्गममिव व्याख्यानम् । अपसिद्धान्तप्रतिज्ञाविरोधादेनिग्रह- 15 स्थानसूत्रे हेत्वाभासेभ्यः पृथगुपदेशात् किमिह तत्सङ्ग्रहेण प्रत्युत सङ्ग्रह एव
सोऽयं विकारो व्यक्तेरपैतीति । तथा च भाष्यम्, “सोऽयं विकारो व्यक्तेरपैति नित्यत्वप्रतिषेधात्, न नित्यो विकार उपपद्यते । अपेतोऽपि विकारोऽस्ति विनाशप्रतिषेधात् । सोऽयं नित्यत्वप्रतिषेधादिति हेतुर्व्यक्तेरपेतोऽपि विकारोऽस्तीत्यनेन स्वसिद्धान्तेन विरुद्धयते । कथम् ? व्यक्तिरात्मलाभः। अपायः प्रच्युतिः। यद्यात्मलाभात् प्रच्युतो 20 विकारोऽस्ति नित्यत्वप्रतिषेधो नोपपद्यते । यत् खलु व्यक्तेरपेतस्यापि विकारस्यास्तित्वं तत् खलु नित्यत्वमिति । नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात् प्रच्युतेरुपपत्तिः। यदात्मलाभात् प्रच्यवते तदनित्यम्, तदस्ति न तदात्मलाभात् प्रच्यवते । अस्तित्वं चात्मलाभात् प्रच्युतिरिति च विरुद्धावेतौ धौ सह न सम्भवत इति । सोऽयं हेतुर्य सिद्धान्तमाश्रित्य प्रवर्तते तमेव व्याहन्तीति' । परिदृश्यमानोऽयं महाभूतादिविकारो व्यक्तेरपैत्य- 25 भिव्यक्ताद् रूपात् प्रच्यवते । प्रतिषिद्धनित्यधर्मकत्वादिति साङ्ख्यप्रयोगः ।
न्या० म० १७