________________
5
१३० न्यायमञ्जऱ्यां
[एकादशम् दोषः । यो हि मीमांसकोऽहमित्यभ्युपगम्य नित्यः शब्दः कृतकत्वाद् घटवदिति ब्रूयान्न तस्यायं हेतुविरुद्धो भवेदपि त्वपसिद्धान्तानिगृह्येत । तस्मात् साध्यविपर्ययसाधन एव विरुद्ध उच्यते न तु पूर्वाभ्युपगंतस्वसिद्धान्तविरुद्धः । न च निरभिप्राय एव सूत्रकृता क्त्वानिर्देशः कृतः, किन्तु ततः प्रतीयमानमानन्तर्यमप्यपेक्षमाणेन यो हि सिद्धान्तमभ्युपेत्य प्रतिज्ञाय तत्सिद्धयर्थतयोपादीयमानस्तमेव विरुणद्धि स विरुद्धो हेत्वाभास इति प्राक्तनमेव व्याख्यानमनवद्यम् ।
अतः प्रतिज्ञाविपरीतसाधनाद् विरुद्धतामेति न हेतुरन्यथा ।
विशेषबाधादिनिबन्धनं पुनर्बहुप्रकारत्वममुष्य नेष्यते ॥ 10 सत्प्रतिपक्षलक्षणम्
यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ॥
एकैकलक्षणापायनिमित्तहेत्वाभासपञ्चकप्रतिज्ञानादसत्प्रतिपक्षत्वलक्षणवैकल्यात् किल प्रकरणसमो नाम हेत्वाभासो वक्तव्यः । स च न सम्भवति
सत्प्रतिपक्षस्य हेतोरभावाद् अद्वयात्मकत्वाद्धि वस्तूनामेकत्र परस्परविरोधिधर्म15 द्वयप्रयोजकहेतुसमावेशो नास्तीत्यसकृदुक्तम् । अत एव विरुद्धाव्यभिचारी
निरस्तः । अनुमानविरुद्धमनुमानञ्च नेष्यत एव । तत् कुतः सत्प्रतिपक्षो हेत्वाभासः ? अतश्च लक्ष्याभावात् कस्येदं लक्षणमित्याशङ्कयाह यस्माद् इत्यादि । विचार्यमाणौ प्रागुक्तलक्षणको पक्षप्रतिपक्षौ प्रकरणम्,
तस्य चिन्ता संशयात् प्रभृति आ निर्णयाद् यद्यपि भवति तथापीह. 20 विमर्शात्मिकैव गृह्यते, सा यस्माद् भवति । कस्माच्च सा भवति ?
विशेषानुपलम्भात् । स एव विशेषानुपलम्भो यदि निर्णयार्थमुपदिश्यते तत्प्रकरणम् अनतिवर्तमानत्वात् प्रकरणसमो भवति, नित्यः शब्दः अनित्यधर्मानुपलब्धेराकाशवत्, अनित्यः शब्दो नित्यधर्मानुपलब्धेर्घटवदिति । सोऽयं
सत्प्रतिपक्षो हेतुरिह लक्ष्यो विद्यते । न च द्वयात्मकानि वस्तूनि, प्रमातारस्तु 25 रूपमेषां नियतमवधारयितुमशक्नुवन्त एव भ्राम्यन्तीति । तथा ह्येको
विशेषबाधादिनिबन्धनमिति । यथा प्रतिपादितं धर्मविशेषबाधादि ।