________________
आह्निकम् ] तर्कप्रकरणम्
१३१ विशेषानुपलब्धेः पक्षधर्मान्वयव्यतिरेकावपश्यंस्ततस्तथेति साध्यं बुध्येत, तथैव च परं प्रत्याययेदिति । इतरोऽपि द्वितीयविशेषानुपलब्धेः साधनतां बुद्धवा प्रत्यवस्थानञ्च करोतीति सप्रतिपक्षक एवैष प्रकरणसमो हेत्वाभासः । तथा च न तावदयं सम्यग् हेतुः, प्रतिपक्षोपहतत्वेन स्वसाध्योपस्थानसामर्थ्यशून्यत्वात् । हेत्वाभासोऽपि च भवन् न तावदसिद्धः, साध्ये धर्मिणि शब्देऽनुपलभ्यमाननित्यधर्मत्वस्य हेतोः सद्भावात् । नापि विरुद्धः, साध्यविपर्ययसाधननिमित्तभूतः सपक्षवृत्तिवियोगानुपपत्तेः । नाप्यनैकान्तिकः, पक्षद्वयसाधारणत्वानवधारणात्, संशयजनकत्वन्तु न तस्य लक्षणमित्युक्तमेव ।
___ नन्वेकस्मिन् पक्षे नियत एकान्तिकस्तद्विपर्ययादनैकान्तिकः । स चायं नित्यानित्यपक्षयोरन्यतरत्रापि न नियत इत्यनैकान्तिक एव स्यात् ? अपि 10 चाहुः 'अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयः' इति । तत्र यथेन्द्रियादेरबोधकत्वाद् वा संशयविपर्ययस्वभावावभाससमुत्पादनदौरात्म्याद् वा भवत्यप्रामाण्यव्यवहारः, एवमनुमानमपि तथैव वर्त्मना प्रमाणाभासतामवलम्बते । तत्र असिद्धस्तावदलभमानो धर्मिणि वृत्ति तत्र साध्यधर्मधियमाधातुमनधिकृत इत्यज्ञानफलत्वादप्रामाण्यमनुभवति । विरुद्धस्तु विपर्ययसाधन इति भवन्त 15 एव प्रतिपन्नाः । संश्यजनकस्त्वनैकान्तिको भवितुमर्हति, न तु पारिभाषिकविपक्षवृत्तित्वमेव तस्य लक्षणमुचितम् । अयमपि चान्यतरपक्षनियमविरहिततनुरिति किमिति न भवति विमर्शमुपदधदनैकान्तिक इति त्रय एव हेत्वाभासाः । ___ उच्यते, न फलनियमेन लक्षणनियमः कर्तुं शक्यते, यद्यपि द्विविधं 20 त्रिविधं वा भवत्यप्रमाणफलं तथापि न त्रिलक्षणके लिङ्गेऽविनाभावः परिसमाप्यते अपि तु पञ्चलक्षणक इति प्रसाधितोऽयमर्थः । तद्वैकल्याच्च हेत्वाभासानामपि पञ्चत्वमेव, फलन्तु द्विविधमस्तु त्रिविधं वा न ह्यप्रतिपत्तिजनकं किञ्चिल्लिङ्गमुपलभामहे, न चाप्रतिपत्ति: प्रयत्नजन्या प्रागभावस्य निसर्गसिद्धत्वादित्यलमवान्तरचिन्तनेन, न फलापेक्षो लिङ्गलक्षणनियमः । तत्र 25 यथा पक्षधर्मरहितत्वमसिद्धलक्षणमेष च हेतुः पक्षधर्मान्वयव्यतिरेकाणामन्यतमेनापि रूपेण न विकल इति कथमनैकान्तिकतां प्रतिपत्स्यते ? व्यस्ततायां हि