________________
१३२
न्यायमञ्जऱ्यां
[ एकादश
सर्वाण्येतानि सन्ति लक्षणानि, समस्तं वस्तु नोपन्यस्तमेव हेतुत्वेन नित्यानित्यधर्मानुपलब्धेरिति। ____ननु यद्यस्य पक्षधर्मान्वयव्यतिरेका निरपवादाः सन्ति कथं तहि न हेतुरेवायम्, इतरस्यापि पक्षधर्मान्वयव्यतिरेकाणां निरपवादानां सम्भवात् सोऽपि न कथं हेतुरस्त्विति चेत्, न, वस्तुनो द्वैरूप्यानुपपत्तेः । एवमिमौ हेतू पक्षद्वयेऽपि बुद्धि जनयन्तौ संशयमावहतो नानैकान्तिकवद्विपक्षवृत्तित्वेनेति हेत्वाभासान्तरत्वम्, एवंविधस्य चास्य प्रकरणसमस्य विरुद्धाव्यभिचारीति नाम यदि क्रियते तदपि भवतु न पुनरैकान्तिकप्रभेदतामवलम्बते तल्लक्षणासंस्पर्शादुभयप्रतीतिजनको हीमौ चेद् उभयतो नोभयपक्षवृत्तीति । नाप्ययं कालात्ययापदिष्ट: प्रत्यक्षागमयोरन्यतरस्यापि बाधकस्यानुपलम्भात् । अनुमानन्तु नानुमानस्य बाधकं भवितुं क्षममित्युक्तम् । न चेतरेतरवाद्यपेक्षया अनयोरसिद्धत्वमभिधेयम्, संशयजनकत्वेऽनुभवसिद्ध सति विशेषानुपलब्धेरप्रत्याख्येयत्वात् ।
ननु निश्चितस्य साधनप्रयोगाधिकारात् कथं चिन्तावान् साधनं प्रयुञ्जीत 15 निश्चितत्वञ्च तद्धर्मानुपलब्ध्योः परस्परमसिद्धत्वं स्थितमेव, नैतदेवम्,
अन्यतरधर्मानुपलब्धेरेव पक्षधर्मान्वयव्यतिरेकान् पश्यन्नसौ निश्चिततां प्राप्तो न द्वितीयधर्मानुपलब्धेरसिद्धतां बुध्यमानः, अत एवायं भ्रान्तिमूलहेत्वाभासो 'द्वितीयधर्मानुपलब्धिसिद्धत्वनिश्चये तु सम्यग् हेतुरेव स्यात् । तदसिद्धत्वान
वधारणेऽप्यसौ स्वस्य हेतोस्त्रैरूप्यदर्शनानिश्चितमतिर्भूत्वा साधनं प्रयुञ्जान 20 इतरेण तथैव निश्चितमतिना प्रतियोगे कृते तस्यापि त्रैरूप्यमुपलभमानः
संशयमधिगच्छतीत्यलं प्रसङ्गेन। तदेवमसिद्धादिलक्षणवैपरीत्यात् प्रतीत्यनुगुणः प्रकरणसमो नाम सिद्धो हेत्वाभासः ।
अपरे पुनरुदाहरणान्तरमस्य व्याहरन्ति, नित्यः शब्दः पक्षसपक्षयोरन्य
विशेषानुपलब्धेरप्रत्याख्येयत्वादिति । अयमाशयः, उभयधर्मानुपलब्ध्या तावदु52 भयोः संशयोऽस्ति, यस्य चोभयधर्मानुपलब्धिः संशयहेतुत्वेनाभिप्रेता स कथमन्यतरधर्मा
नुपलब्धिः प्रत्याचक्षीत, यो ह्यभयधर्मानुपलब्धिमभ्युपगच्छत्यभ्युपगच्छत्येवासौ अन्यतरधर्मानुपलब्धिमपि, तथा विनोभयधर्मानुपलब्धेरभावादिति