________________
आह्निकम् ]
तर्कप्रकरणम्
१३३
तरत्वाद् आकाशवत्, अनित्यः शब्द: पक्षसपक्षयोरन्यतरत्वाद् घटवदिति ।
ननु पक्षसपक्षयोरन्यतरः पक्षो वा स्यात् सपक्षो वा स्यान्न तृतीयो न हि मित्रावरुणयोरन्यतरः सोमो भवितुमर्हति, तत्र पक्षेऽन्यतरशब्दवाच्येऽनन्वयः, न हि शब्दाख्यः पक्षो धर्मी धर्म्यन्तरे वर्तते, सपक्षे त्वन्यतराभिधेये पक्षधर्मता नास्ति, न ह्याकाशादिः सपक्षः शब्दाख्ये धर्मिणि वर्तते ।
उच्यते, न पक्षत्वादिति हेतुः प्रयुक्तः, सपक्षत्वादिति वा यनैवं स्यात्, किन्तु पक्षसपक्षयोरन्यतरत्वादिति। ततश्च द्वयोरपि किमपि साधारणरूपं न हि वरुणो यष्टव्य इति यादृशी बुद्धिस्तादृश्येव मित्रावरुणयोरन्यतरो यष्टव्य इति । विशेषनिष्ठतायान्तु बलादापाद्यमानायां सकलानुमानोच्छेदः । न चान्यतरत्वं शब्दमात्रारोपितरूपमवास्तवमिति वदितुमुचितम् अर्थासंस्पर्शितायाः 10 प्रतिक्षिप्तत्वात् ।
अन्यतरत्वादित्यसिद्धो हेतुरिति चेत् किल पक्ष एवायं न पक्षसपक्षयोरन्यतर इति । तदयुक्तम्, यत एवायं पक्षस्तत एव पक्षसपक्षयोरन्यतरो न ह्यपक्षः पक्षसपक्षयोरन्यतरः स्यात्, न ह्यवरुणो मित्रावरुणयोरन्यतर इत्युक्तमेव । पक्षोऽपि च भवन्नेष न पक्षत्वादित्यनेन रूपेण हेतूक्रियते, 15 किन्त्वन्यतरत्वादितीत्थञ्च हेतूकरणे नैष दोष इति ।
अपरमुदाहरणम्, सन् सर्वज्ञः इतरतद्विपरीतविनिर्मुक्तत्वाद् घटवत् ।
इतरतविपरीतविनिर्मुक्तत्वादिति । सत्त्वस्य साध्यत्वादितरतद्विपरीतमसत्त्वम्, तेन विनिर्मुक्तत्वादिति । अन्यत्रापि असन् सर्वज्ञ इत्यत्राप्यसत्त्वं साध्यं तदितैरतद्विपरीतं सत्त्वमेवं केचिद् व्याचक्षते । तच्चायुक्तम्,एवं हि सत्त्वात् सन्नित्युक्तं स्यादितरशब्दवैयर्थ्यं 20 च तस्मादेवं व्याचक्षते, सर्वज्ञः सन् कुतः ? इतरतद्विपरीतविनिर्मुक्तत्वात् । इतरो द्वितीयो यः सर्वज्ञ एव तद्विपरीतः सन् सर्वज्ञविपरीतः असन्, तेन विनिर्मुक्तत्वात् तदभावोपलक्षितत्वादित्यर्थः । यदि हि इतरो द्वितीयः कश्चिद् विपरीतोऽसन्नपि सर्वज्ञशब्दवाच्यः सर्वज्ञतया सिद्धः स्यात् तदा असतोऽपि सर्वज्ञतया समुपलम्भात् प्रकृतेऽपि सर्वज्ञतया असत्त्वमासज्ज्येत । नन्वस्ति इतरोऽसन् सर्वज्ञः कश्चित्, अतः सन्नेव सर्वज्ञ इति, यथा इतरेणासता 25 घटशब्दवाच्येन घटेन विनिर्मुक्तो घटः सन्नेव नासन्; यः पुनरसन्नेव सोऽपि इतरेणासता विनिर्मुक्तः, यथा काचिच्छशविषाणव्यक्तिः शशविषाणव्यक्त्यन्तरस्यासत्त्वभूतस्योप