________________
१३४ न्यायमञ्ज
[एकादशम् असन् सर्वज्ञः इतरतद्विपरीतवि निर्मुक्तत्वात् खरविषाणवद् इत्यत्राप्याक्षेपप्रतिसमाधानप्रकारः पूर्ववदनुसरणीयो धर्म्यसिद्धता च यत्नतः परिचिन्तनीया । ___ एवंजातीयकन्तूदाहरणं नानुमोदन्ते मतिमन्तः । यत्र हि हेतुना स्वयमर्थं सम्यगसम्यग् वानुमाय प्रमाता परप्रत्यायनाय तं हेतुं प्रयुञ्जीत स प्रयुज्यमानो वस्तुबलप्रवृत्ततया हेतूभवति हेत्वाभासीभवति वा, तथा ह्यारोहपरिणाहवति पुरोऽवस्थिते धर्मिणि स्थाणुगतविशेषानुपलम्भादेकस्य पुरुष इति भवति प्रतीतिरितरस्य तु पुरुषगतविशेषानुपलब्धेः स्थाणुरिति भवति मतिः । एवं यदा असावेकः पुरुषत्वसिद्धये परं प्रति स्थाणुधर्माग्रहणं हेतुत्वेन
ब्रूयाद् इतरोऽपि पुरुषधर्माग्रहणेन स्थाणुतां प्रतिष्ठापयन् प्रत्यवतिष्ठते तदा 10 स्वप्रतीत्यनुसरणपुरःसरसाधनाभिधानाद् भ्रान्तिसम्भवाच्च युक्तं तथाविधोदाहरणकीर्तनम् ।
__ एवं नित्यः शब्दोऽनित्यधर्मानुपलब्धेराकाशवत्, अनित्यः शब्दो नित्यधर्मानुपलब्धेर्घटवदित्यपि द्रष्टव्यम् । यस्तु न वस्तुमूलः, केवलोत्प्रेक्षामात्राव
लम्बनः स्वप्रतीतिषु न दृष्टपूर्वः किं तदुपन्यासेन ? एतेन सद्वितीयप्रयोगा अपि 15 प्रत्युक्ताः । यथा क्वचित् साधनप्रयोगे कृते सति तत्रैवं परः प्रत्यवतिष्ठते, यथा
प्रस्तुतसाध्यधर्माधिकरणत्वशन्यमिघटान्यतरसद्वितीयो घटः, अनुत्पन्नत्वात् कूड़यवदिति । यथा प्रस्तुतेन सिषाधयिषितेन धर्मेण शून्यो यः प्रकृतो धर्मो घटश्च तयोरन्यतरेण न सद्वितीयोऽयं घटरूपो धर्मी तत्र हेतुरनुत्पन्नत्वं तस्य
कुड्यादौ व्याप्तिरिति । सत्यं वदत, यद्यस्ति लोके क्वचिदीदृशः प्रतीतिक्रमः, 20 लम्भान्न सती । एवं द्वितीयप्रयोगे असन् सर्वज्ञः, द्वितोयस्य सत्त्वेन सिद्धस्य सर्वज्ञस्य उप
लम्भाद् यदि सन्नपि सर्वज्ञतया सिद्धः स्यात् तत्प्रकृतेऽपि सत्त्वमाशङ्क्येत, न त्वसावस्ति; यथेतरस्य शशविषाणस्य सिद्धस्याभावादसन्नेव शशविषाण इति । अत्राप्याक्षेपः प्रतिसाधनं चेति । अत्रापीतरशब्दस्य प्रकृतपरामर्शकत्वात् तेन किं सर्वज्ञस्य परामर्श उत
घटस्येत्यन्यतरशब्दवदाक्षेपप्रतिसमाधाने । सत्त्वे च साध्ये 'नासिद्धे भावधर्मोऽस्ति' इत्यादि 25 परिचिन्तनीयम् । किमस्ति न वेति तत्राक्षेपे वाद्यस्तीत्याह, प्रतिसमाधानवादी तु बुद्धया
रूढस्य बाह्यानुपादानत्वसाधनाद् बौद्धेन च रूपेण सत्त्वान्नास्ति धर्मीत्याह धर्म्यसिद्धतेति ।