________________
आह्निकम् ] तर्कप्रकरणम्
१३५ घटश्च धर्मो मिघटयोरन्यतरेण सद्वितीय इत्यत्रान्यतरशब्दः सामान्यवचनोऽपि मिणि व्याख्येयः । न हि घट एव घटेन सद्वितीयो भवितुमर्हतीत्यलमलीककल्पनाकौशलप्रख्यापनेन ।
सम्यग् वा यदि वान्यथा विदधते ये हेतवः संविदं दृष्टाः स्वात्मनि ते प्रयोक्तुमुचिताः कामं परज्ञप्तये । ये तु स्वप्रतिपत्तिमेव न तथा कक्षमाः कल्पना
सामोत्थितवस्तुशून्यघटनाः किं तत्प्रयोगे फलम् ।। ये तु सूक्ष्मोत्प्रेक्षणक्षमप्रज्ञातिशयाभिधानदुर्विदग्धास्तथाविधानपि
प्रयुञ्जते।
10
कृतकवचनाचातुर्य तैः प्रदर्शितमात्मनो भवति न पुनः शुद्धिः काचित् प्रमेयदिशः कृता । क्वचिदवसरे त्वेवंप्रायाः परभ्रमकारिणः किल सफलतां दध्युर्जल्पे यथा कथितं पुरा । तत्र त्वेतान् कथयति परः प्राज्ञमानी यदा वा तस्याख्येयो निपुणमतिना पूर्वनीत्या समाधिः । द्राघीयस्या तदलमनया ताकिकम्मन्यगोष्ठया हेत्वाभासः प्रकरणसमस्त्वेष निर्णीत एव ।
15
असिद्धलक्षणम्
साध्याविशिष्टः साध्यत्वात् साध्यसमः ॥ अन्यतरवादिप्रसिद्धमन्यतरं प्रति यत् साधयितुमुपादीयते तत् साध्यम्, 20 तदविशिष्टो हेतुः साध्यसमः । कथं साध्येन तुल्यता हेतोरिति चेदाह साध्यत्वादिति । यथा साध्यमसिद्धत्वात् साध्यं तथा तत्सिद्धयर्थमुपात्तो हेतुरपि योऽसिद्धत्वात् साध्यः स साध्याविशिष्टत्वात् साध्यसम इत्युच्यते ।
एतच्चान्यतरासिद्धस्यैव लक्षणम् । यथा मीमांसकं प्रत्यनित्यः शब्दः कृतकत्वाद् घटवदिति । न चाक्षुषत्वादेरुभयासिद्धस्य, न हि तस्य साध्यत्वं 25 सम्भवतीत्यर्थः ।