________________
5
न्यायमञ्जय
[ एकादशम्
सकलासिद्धभेदसङ्ग्रहाय साध्यत्वादित्येतत्पदरहितं साध्याविशिष्ट इत्येवासिद्धलक्षणमुपवर्णनीयम् । साध्यस्य च रूपद्वयस्यासिद्धत्वं साध्यत्वञ्च तत्रासिद्धत्वमेव । तदविशिष्टत्वकारणमिहाश्रीयते सर्वासिद्धभेदसाधारणम्, न तु साध्यत्वमन्यतरासिद्धैकलग्नमिति । एवञ्चासिद्धत्वमेवासिद्धस्य लक्षणमुक्तं भवति । पक्षधर्मत्वं यस्य नास्ति साध्ये धर्मिणि यो न वर्तते हेतुः सोऽसिद्ध इति ।
असिद्धभेदाः
तस्य तु भूयांसो भेदा भवन्ति । हेतुस्वरूपे तावदन्यतरस्य वादिनो द्वयोर्वा अज्ञानं सन्देहो विपर्यय इति । तथा तदाश्रयेऽपि धर्मिण्येकस्य वा 10 द्वयोर्वा तथैवाज्ञानसन्देहविपर्यया इति । भूयसि च पक्षीकृतेऽर्थे तदेकदेशे क्वचिद् वृत्तिस्तदितरत्रावृत्तिरिति । एकदेशवृत्तावपि द्वयोरेकस्य वा तथैवाज्ञानसंशयविपर्यया इति । एवंप्रकारभेदोदाहरणवर्णनमल्पप्रयोजनमिति न प्रस्तूयते ।
20
१३६
अन्यतरासिद्धेर्न विवदन्ते प्रमाणस्यापक्षपातित्वात्, यदि तावत् कृतकत्वं 15 शब्दे प्रमाणतो निर्णीतं तर्हि मीमांसकस्यापि तार्किकस्येव तत् सिद्धमेव । अथ तत्र कृतकत्वनिश्चयनिपुणं नास्त्येव प्रमाणं तदा तार्किकोऽपि तूष्णीमास्ताम्, द्वयोरप्यसौ चाक्षुषत्वादिवन्न सिद्धयेद् हेतुः । वाङ्मात्रेण त्वसिद्धिकथनमसाम्प्रतमतिप्रसङ्गादेव ।
हेतुस्वरूपे तावदन्यतरस्य वाचिनो द्वयोर्वा अज्ञानं सन्देहो विपर्यय इति । अज्ञानमसिद्धत्वं यथा अनित्यः शब्दः कृतकत्वादिति कृतकत्वे मीमांसकस्यासिद्धता । अनित्यः शब्दश्चाक्षुषत्वादित्युभयासिद्धिः । किमयं बाष्पो धूमो वेति हेतुत्वेनोपादीयमानो द्वयोरेकस्य वा संदिग्धः । वह्निर्न दाहकः शैत्यात्, अनित्यः शब्दोऽश्रावणत्वादित्युभयोर्विपर्ययः । तथा तदाश्रयेऽपि धर्मिण्येकस्य वेति । आत्मा धर्मी सर्वगत इति साध्यं सर्वत्र दृष्टकार्यत्वादित्यत्र हेत्वाश्रये आत्मनि अज्ञानं बौद्धस्य, लौकिकानां तु संशयः । अस्मिन्नेव बौद्धेन चार्वाकं प्रत्युक्तम् उभयोरज्ञानम् । तदेकदेशे क्वचिद् वृत्तिः । यथा नित्याः परमाणवो गन्धवत्त्वादिति । गन्धवत्त्वस्य पार्थिवेषु परमाणुषु वृत्तिस्तदितरत्र आप्यादिष्ववृत्तिः । एक देश वृत्तावपि द्वयोरेकतरस्य वेति । यथात्रैव योगाचारस्याज्ञानं तस्य परमाणू नाम
25