________________
१३७
आह्निकम् ]
तर्कप्रकरणम् . सत्यम्, एवं न सर्वदान्यतरासिद्धस्य हेत्वाभासत्वमभिदध्महे; किन्तु कञ्चित् कालमिति, यदैकेन वादिना हेतौ प्रयुक्त द्वितीयो वदति सम्प्रति न सिद्ध एष इति तदा हेतोः प्रयोगाद् विना तत् साधनमभिधेयम्; अनभिधानात् स पराजीयते । साधने तु तेनोक्ते तदसिद्धतोद्भावनवादी पराजीयते इति । यावत् तत्सिद्धौ नोपन्यस्तं साधनं तावदेव असावन्यतरसिद्धयनन्तरन्तु सम्यग् हेतुरु- 5 भयासिद्धो वा भविष्यतीति ।
व्यधिकरणासिद्धस्तु यथोक्तभेदान्तर्गत एव, यथा नित्यः शब्दः काकस्य कार्ष्यादिति। क्वचित् पुनश्च व्यधिकरणासिद्धोऽपि भवति गमक इत्येके । तद् यथा बहलबहल: प्रचलजलधरश्यामलवपुरम्बरतलमाक्रामन् धूमप्रबन्धः क्षोणीध्रकन्दरादिविशेषधर्मत्वानवधारणेऽपि तत्र गमयितुमलमनलमिति । 10 यथा वा अग्निमानेष देशों धूमोपलब्धेरिति प्रयुज्यते तदोपलब्धेरात्मधर्मतया वैयधिकरण्येऽपि गमकतास्तीति ।।
सिद्धत्वादिति, तस्य माध्यमिकं प्रत्येवं ब्रुवत उभयोरज्ञानं लौकिकानां तु संदेहः, कस्यचिद् विपर्यय इति । पदासिद्धाद्यपेक्षया वा अज्ञान-संदेह-विपर्यया व्याख्येयाः । यथाह भट्टः,
अलक्षणमसिद्धं च पदाभासं स्वगोचरम् । सिद्धपोषधविज्ञप्तिपश्यनादि प्रकल्पयेत् ॥ हेतौ विवक्षिते तत्र पदासिद्धोऽभिधीयते । अन्यस्य वाचको यत्र शब्दोऽन्यत्र प्रयुज्यते ॥ तत्रासिद्धाभिधो हेतुर्विज्ञाने कायशब्दवत् । प्रामाण्यं बुद्धवाक्यादेः सर्वज्ञोक्ततया यदा ॥
साध्यते तत्र हेत्वर्थस्वरूपासिद्धता मता ॥ इत्यादि । यत्र सङ्कोचप्रसिद्धयोगत्वाच्चेतनास्तरवो जङ्गमशरीरवत्, चतुर्दश्यां हलेष्वयोजनं वृषाणां धर्मः पोषधत्वाद् यवसादिदानवदित्यादौ सिद्ध-पोषध-विज्ञप्ति-पश्यनादिपदानां साधनप्रतिपादकत्वेन प्रयुक्तानां पदासिद्धताव्यपदेशः । तत्र बौद्धसिद्धान्तसमाश्रयणेन प्रयुञ्जानस्य वादिन एव स्वाज्ञान-संदेह-विपर्ययाः, प्रतिवादिनस्तु बौद्धस्याज्ञानमेव, बौद्धेन 25 वा प्रयुक्तेषु प्रतिवादिनोऽज्ञानादय इति ।
एवंप्रकारभेदोपवर्णनमल्पप्रयोजनमिति । तथा च प्रकारभेदानाह भट्टः, न्या० म० १८
20