________________
१३८
न्यायमञ्जयां
[ एकादशम् अन्यथासिद्धस्यासिद्धभेदरूपतेति शङ्का तत्समाधानञ्च
अन्ये त्वन्यथासिद्धत्वं नाम तद्भेदमुदाहरन्ति । यस्य हेतोमिणि वृत्तिभवन्त्यपि साध्यधर्मप्रयुक्ता भवति न सोऽन्यथासिद्धो यथा अनित्या मनःपरमाणवो मूर्तत्वाद् घटवदिति । ___ ननु कथमयमन्यथासिद्ध उच्यते, किमिति सम्यग् हेतुरेव न भवति, किं परमाणुषु मूर्तत्वं न वर्तते, किं घटादावनित्यतया व्याप्तं न दृश्यते, किमाकाशादेः खपुष्पादेर्वा विपक्षान्न प्रच्यवते ? किं प्रत्यक्षेणागमेन वा बाध्यते, किं प्रतिपक्षेण प्रतिबाध्यते येनाभासतां प्रतिभजते ? न, प्रतिबन्धाभावात् ।
ननु पञ्चानां प्रतिबन्धलक्षणानां कतमदस्य श्लथीभूतम् ? नान्यतमस्यापि शैथिल्यं ब्रूमः । तत् किं पञ्चस्वपि लक्षणेषु प्रतिबन्धः समाप्यते ? तानि चासां सन्त्येव, न चैष प्रतिबन्ध इति कैतवम् ।
उच्यते, प्रयोज्यप्रयोजकभावेन साध्यसाधनधर्मयोधूमाग्निवत् प्रतिबन्धोऽवधार्यते, स चात्र प्रयोज्यप्रयोजकभावो नास्तीत्यत एवायमन्यथासिद्धो15 ऽप्रयोजक इति कथ्यते ।
कथं पुनरस्याप्रयोजकत्वमवगतम् ? उच्यते, मूर्तत्वं हि सर्वगतेतरद्रव्यपरिमाणविशेषादिधर्मो वस्तुस्वभावमात्रनिबन्धनो न कृतकत्वादिवदनित्यतां
पदासिद्धादयस्त्रेधा भिद्यन्ते वाद्यपेक्षया । कश्चिद्धि वादिनोऽसिद्धः कश्चिद्धि प्रतिवादिनः ॥ उभयोरपि कश्चित्तु सोऽपि भिन्नः पुनस्त्रिधा । प्रत्येकाज्ञानसंदेहविपर्यासनिरूपणात् ॥ वादिना कश्चिदज्ञातस्तथान्यः प्रतिवादिना । उभाभ्यामपरस्तद्वत् तत्संदेहविपर्ययौ ॥ संदिग्धो वादिनो वा स्यादज्ञातः प्रतिवादिनः ।
तथैकस्य पदासिद्धस्तदाज्ञानादिभिस्त्रिभिः ॥ इत्यादि वितायमानं ग्रन्थगौरवमावहतीत्यलम् ।