________________
आह्निकम् ] तकंप्रकरणम्
११७ प्रमाणपदेन च तत्फलाक्षेपान्न निर्णयमात्रोद्दिष्टेन किमपि प्रयोजनम्, विशिष्टस्तु निर्णयो लक्षणत्वेन विवक्षितः ।
परीक्षाविषयो यो हि निर्णयो न्यायनिर्मितः । . नियमत्रयमप्येतत् तस्मिन्न हि न युज्यते ॥ न हि न विमृश्यैव भवन्ति, विमर्शपूर्वकत्वात् परीक्षायाः । अनुमानञ्च सन्दिग्धे विषये प्रवर्तत इति प्रायेण तद्व्यवहारः ।
यद्यपि क्वचिदसन्दिग्धेऽपि विषये दृष्टं प्रवर्तमानमनुमानमनलानथितायामतर्कितोपनतपर्वतनितम्बनिर्गतधूमदर्शनेन कृशानुकल्पनमिव, तथापि वस्तुयोग्यतावशेन सन्दिग्धविषयमेवानुमानमिच्छन्ति न्यायविदः । प्रकृतश्च निर्णयः पक्षप्रतिपक्षाभ्यामेव निर्णय एवेति न शक्यते नियन्तुमन्यथा न्यायानुप- 10 रमादिति । शास्त्रे तु विनापि संशयादस्ति निर्णयः ।
यद्यपि च तत्रापि सूत्रकृता सर्वपरीक्षाणां संशयपूर्वकत्वमुपदेशातिदेशाभ्यामभ्यधायि तथापि नासौ शास्त्रीयो निर्णयः परीक्षाकार्यत्वात् । यस्तु शास्त्र एव क्वचिद्विषयनिर्णयः स विमर्शवर्जमुत्पद्यते । वादेऽपि विमर्शरहिते भवति निर्णयः, उभौ निश्चितौ वादं कुरुतः सन्दिग्धस्य तत्रानधिकारात्, 15 कथं तर्खेष प्रवादः संशयच्छेदो वादस्य फलमिति ? प्रथममुभयोरपि निश्चितयोर्वादप्रवृत्तावन्तराले बलादापतति युक्तिद्वयोपनिपातवतः संशय इति वस्तुनिर्णयावसानत्वाद् वादस्य संशयच्छेदफलत्वमाचक्षते ।
यद्यप्यनिश्चितमतिः कुरुते न वादं श्रुत्वा तथापि परकीयनयप्रवेशम । अन्तर्मतद्वयबलाबलचिन्तनेन संशय्य निर्णयति नूनमसौ स्वपक्षम् ॥ 20
वस्तुयोग्यतावशेन सन्दिग्धविषयमेवानुमानमिति । सन्दिग्धं हि वस्तु परीक्ष्यते तत्त्वज्ञानार्थं न निश्चितमिति वस्तु योग्यता ।
संशयपूर्वकत्वमुपदेशातिदेशाभ्यामिति । उपदेशेन यथा संशयादीनां “समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाच्च न संशयः" इत्यादिना; प्रयोजनादीनां तु “यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः" इत्यतिदेशेन । वादेऽपि विमर्शरहितो भवति निर्णय 25 इति । न हि तत्र सन्देहविषयः परस्मै निश्चितत्वेन प्रतिपद्यते, वीतरागकथात्वात् तस्य ।