________________
११६ न्यायमञ्ज
[ एकादशम् ____एतदुक्तं भवति स्वपक्षं प्रमाता निर्णयतीति न खल्वेवं न जाने च दूषणमुत्प्रेक्षमाणः स्वपक्षे साधनमधिगच्छन् परपक्षसाधने च दूषणमुत्प्रेक्षमाणः प्रमाता निर्णयतीति, किन्तूपालम्भस्य क इव निर्णयजन्मनि व्यापारः ? स हि परपक्षसाधनमवच्छिन्द्यादिति । अस्त्वेतत् तदुच्छेदद्वारेण अपि तु स्वपक्षसाधनमहिमानमाविष्कुर्वन् कल्पत एव निर्णयायेति युक्तो द्वयोरपि करणभावः ।
नन्विदानीमर्थग्रहणमनर्थकम् एवंविधसाधनाधीनजन्मा हि न निर्णयाभासः सम्भवति । साधनोपालम्भलक्षणार्थावपि च पक्षप्रतिपक्षशब्दौ विषयमभिवदितुं ननु शक्नुत इत्युक्तमेवेति कोऽर्थोऽर्थग्रहणेन ?
उच्यते पक्षप्रतिपक्षयोस्तु द्वयोरन्यतरत्रार्थेऽवधारणं भवति नोभयत्र । स एव च परमार्थतोऽर्थः, इतरस्तु भ्रान्तिकल्पित इति प्रदर्शनायार्यपदोपादानम् । लक्ष्यमाणसाधनोपालम्भनिष्ठत्वात्त पक्षप्रतिपक्षशब्दयोविषयनिर्देशार्थमर्थपदमित्येके । विमृश्येति किमर्थम् ? वस्तुस्वरूपकथनार्थमेव । अनुमानकरणको हि निर्णय इह लक्ष्यते इत्युक्तम्, अनुमानञ्च संशयविषये प्रवर्तत इति तर्कानन्तरमप्यनेनैवाशयेनास्योपादानम् । संशयादनन्तरं तर्कस्तर्कादूर्ध्वञ्च निर्णयो दृष्टः प्रवर्तमानोऽतः स तत्पूर्वक उच्यते ।
निर्णये तु समुत्पन्ने बुभुत्सा विनिवर्तते ।
अत एव हि मन्यन्ते तदन्तं न्यायचिन्तनम् ।।
भवत्वेवम्, इदन्तु चिन्त्यतां क्व नियमः ? किं विमर्शे, किं पक्षप्रति, 20 पक्षयोः, किं निर्णय इति, त्रयेऽपि च नोपपद्यत इति । न विमृश्यैव निर्णयो
ऽविमृश्यापि भावात् । न पक्षप्रतिपक्षाभ्यामेवेन्द्रियादेरपि तदुत्पादात् । न निर्णय एव तर्कस्यापि क्वचिदनिवृत्तेः । उक्तमत्रोद्देशसूत्रे तत्त्वज्ञानपदोपादानात्
विषयनिर्देशायार्थपदमिति । अर्थः पक्ष इति ।
अत एव हि मन्यन्त इति । यत एव बुभुत्सा निवर्ततेऽत एव बुभुत्सापूर्वकत्वात् संशयस्य, तदभावे तत्पूर्वकन्यायप्रवृत्त्यभावः । अविमृश्यापि भावादिति । इन्द्रियादिजन्मन इति शेषः। न निर्णय एव तर्कस्यापि क्वचिदनिवृत्तेरिति । प्रतिबन्धसामग्रीवैकल्याभ्यामिति शेषः।
25