________________
आह्निकम् ]
तर्कप्रकरणम्
११५
अग्नय इत्यस्य स्थाने सूर्यायेति पदस्य प्रयोग ऊहस्य फलम्, नोहः । इह तु पूर्वोक्तया नीत्या प्रमाणव्यतिरिक्त ऊह उपपादितः, श्रोत्रियास्तु तदनभिज्ञतया न्याये न्यायफले वोहशब्दमुपचरितवन्त इत्यलं शास्त्रान्तरोद्गारगहनाभिः कथाभिः ।
तदेष मीमांसककल्प्यमानो नोहः प्रमाणव्यतिरेकमेति । प्रमाणसन्देहदशान्तरालवर्ती तु तर्कः कथितोऽत्र शास्त्रे ॥
निर्णयलक्षणम्
तर्कानन्तरं निर्णयो भवति पठितश्चेति स लक्ष्यते,
विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ॥
10
अवधारणमपि तथा स्यादित्यर्थग्रहणम् । इन्द्रियादिजनितमपि तदव - धारणमस्त्येव न्यायोपरमहेतोस्तु निर्णयस्योद्देशात् स एवानुमानजन्यो लक्षणीय इहेति पक्षप्रतिपक्षाभ्यामित्युक्तम् ।
एकाधिकरण धर्मों तुल्यकालौ विरोधिनौ । पृथकपरिग्रहौ पक्षप्रतिपक्षावुदाहृतौ ॥
न हि ताभ्यां निर्णयः, तयोरन्यतरविषयो हि भवति न तत्करणक एवेति, सत्यम्, इह तु पक्षप्रतिपक्षशब्दाभ्यां तद्विषयौ साधनतदुपालम्भौ लक्ष्येते, तौ च तस्मिन् करणमेव । किमर्थं पुनर्लक्षणा आश्रीयते साधनोपलम्भाभ्यामेवेति कथं न सूत्रितम् ? एवमभिधीयमाने पुनस्तयोर्विषयो मृग्यः, लक्षणाप्रयोगे तु सोऽप्यवगतो भवेत्, मुख्यमभिधाय तदितरो लक्ष्यते । भवत्वेवम्, द्वाभ्यां कथं तु निर्णयः, एकमेव हि साधनं निर्णयाय कल्पते ? एवमेतत्, न द्वितोयमपि साधनं निर्णयनिमित्तमाचक्ष्महे, किन्तु तदुपालम्भं साधनञ्च साधनोपालम्भश्च साधनोपालम्भौ ताभ्यां निर्णयः ।
5
स्यादिति । तत्राप्याह अग्नय इत्यस्य स्थाने इति ।
निर्णयलक्षणे मुख्यमभिधाय तदितरो लक्ष्यत इति । पक्ष प्रतिपक्षाभ्यां पक्षप्रतिपक्ष विषयाभ्यां साधनदूषणाभ्यां पक्षप्रतिपक्षयोः साधनोपलम्भाविति ।
15
20
25