________________
११४ न्यायमञ्ज
[ एकादशम् क्रमप्रतिषेधे चोदनानुबन्धः समवायात्' इति सूत्रमनुसरन्तः । एतत्तु प्रतत्यमानमतिप्रसङ्गमावहति विविधमेव चोहं याज्ञिका अनुमन्यन्त इति । ___ अत्र वदन्ति, सोऽयमूहशब्दः श्रोत्रियैरनुमाने प्रयुक्तो यथा स्मृतिकारैस्तत्र तर्कशब्द: 'यस्तर्केणानुसन्धत्ते' इति । तथा हि वैकृतं कर्म धर्मि, तत्समवेतार्थप्रकाशकमन्त्रप्रयोगनिर्वय॑मिति साध्यो धर्मः, कर्मत्वात् प्राकृतकर्मवत् । मन्त्रो वा तत्समवेतप्रकाशकः प्रयोज्यो मन्त्रत्वात् प्राकृतमन्त्रवदिति । प्राकृतेषु च कर्मसु तथा तथा व्याप्तिग्रहणात् सर्वोऽयमनुमानमार्ग एव । नखाः प्रोक्षणीयाः प्रयोगोपयोगितण्डुलनिवर्तकत्वादुलूखलमुसलवदिति । सामसु तु
स्पष्टमेव वचनमस्ति 'रथन्तरमुत्तरयोर्गायति' इति तदभावेऽपि मन्त्रसंस्कार10 समानयोगक्षेमत्वमेव ।
अपि च शब्दपृष्ठस्थितन्याये सहस्रव्युत्पादनात्मके मीमांसाशास्त्रे तन्न्यायलभ्योऽर्थश्चोदनार्थ एवेति स्थापितम्, अतश्च यथोक्तोहलभ्यस्यार्थस्य चोदनार्थता मा निर्वतिष्टेति सोऽयमूहः शब्द एवान्तर्भावणीयः, प्रमाणान्तर
गोचरो वा धर्मः स्यात् । न्यायविशेषात्मकस्तूहो नानुमानादर्थान्तरं स्यात् । 15 कारणान्तरमित्याह, धर्मस्यार्थकृतत्वादिति । प्रकृतौ तावद् धर्माणामर्थकृतत्वमपूर्वप्रयुक्त
त्वं प्रतिपादितम्, योऽसावपूर्वसाधनभूतोऽशो व्रीह्यादेः, तमुद्दिश्य धर्मप्रयोगः, प्रयोजनत्वात् । न स्वरूपोद्देशेनार्थत्वप्रसङ्गादिति । तस्य चांशस्य नीवारादिषु भावात् तेषु तद्धर्मप्राप्तिरिति तत्र नानर्थत्वम्, तदेवमुदाहरणपञ्चकेनोहपञ्चकमत्र सूत्रे दर्शितम् । भट्टेन
तु दृष्टमुख्यार्थता-स्वार्थसमवेतार्थतादिभिः प्रयुक्ताः प्रकृतौ मन्त्रागताः कार्यातिदेशतो 20 विकारेष्वनिषिद्धोहकार्यापन्नेषु पञ्चधेति पञ्चविधत्वं यत् प्रतिपादितं तद् मन्त्रोहस्यैवेत्यलम् ।
तदभावेऽपि मन्त्रसंस्कारसमानयोगक्षेमत्वमिति । उत्तराधरं रथन्तरं योनाविव विशिष्टस्तोत्रसम्पादकत्वेनोपकारि रथन्तरत्वात् प्रकृतरथन्तरवदिति । मन्त्रसंस्कारसमानयोगक्षेमत्वम्, यथा मन्त्रसंस्कारयोरनुमानं प्रदर्शितं तथात्रापोत्यर्थः ।
न च वितर्कासहायः शब्दस्तात्त्विकमर्थं प्रतिपादयत्यतो वितर्कमात्रस्य शब्द एवान्तरभावो वितर्कविशेषेऽस्तूहोऽनुमानमेवेत्याह न्यायविशेषात्मकस्त्विति । अतो नास्ति मीमांसकदृष्ट्या पृथगूहः कश्चिदिति अथ 'सूर्यायेति पदप्रक्षेप ऊहः' स कथमनुमानं