________________
आह्निकम् ] तर्कप्रकरणम्
११३ क्वचिच्च विकृतौ श्रूयते 'नखनिर्भिन्नश्चरुर्भवति' इति, तत्रोलूखलमुसलयोः प्रकृतौ पुरोडाशापेक्षिततुषकणविप्रमोकपूर्वकतण्डुलीभावसम्पादनद्वारेणोपयोगाद् विकृतावपि तत्कार्यापन्नानां नखानां प्रोक्षणाख्यः संस्कारः क्रियत इति । सोऽयं त्रिविध ऊहः ।
केचित्तु पञ्चविधमूहमाचक्षते 'धर्मस्यायंकृतत्वाद् द्रव्यगुणविकारव्यति- 5
धर्मस्यार्थकृतत्वाद् द्रव्यगुणविकारेति । तत्र द्रव्योदाहरणं प्रतिपादितम् । बार्हस्पत्यं चरुं नैवारं सप्तदशशरावं निर्वपेदिति नोवारव्यक्तिरूपद्रव्याश्रयणेन तत्प्रवृत्तेः । गुणोदाहरणं तु संस्थिते षडहे मध्वश्नातीति, षडहेनोपासीतेति द्वादशाहे चोदना स्वतन्त्रा वा । तत उक्तम्, संस्थिते षडहे मध्वश्नातोति । यदि दैवात् षडहः संतिष्ठते न क्रियतेऽशनम् । मध्वशनं कर्तव्यमिति षडहकार्ये मध्वशनं विधोयते । गुणत्वं तु मध्वशनस्य प्रदेशान्तरे 10 षडहाङ्गत्वेन विधानात् । यदा षडहेनोपासनं क्रियते तदा तदङ्गत्वेन मध्वशनमपि कचित् प्रतिपादितमिति तद् दृष्ट्वा गुणशब्देन मध्वशनस्य प्रतिपादनम् । विकारोदाहरणम्, नखनिभिन्नश्चरुर्भवतीत्यत्र नखा विकारशब्देनाभिधीयन्ते,तुषकणविप्रमोकलक्षणे वाधिकारे नखाः श्रुताः। व्यतिक्रमः पुनरप्रागागम्यसमर्थस्य यूपस्य परित्यागोऽन्यस्यासमर्थस्याश्रयणं यथा परिधौ पशुं नियुञ्जीतेति । न हि परिधिरल्पपरिमाणस्य पशोरप्यागम्ये समर्थः 15 इति । प्रतिषेधस्तु न गिरा गिरेति ब्रूयादैरं कृत्वोद्गायेदिति ज्योतिष्टोमे यज्ञ-याज्ञीयं साम प्रकृत्य स्तुतं न गिरा गिरेति कुर्यादिति । तत्र साम्नि यद् गिरेति पदमस्ति तन्नब्रूयात् । किं तहि कुर्यादित्याह, ऐरं कृत्वोद्गायेदिति इराशब्दस्य विकारमिरा इरेत्यादिकं कृत्वा गायेदित्यर्थः । तदेतेषु नीवारमधुभक्षणनखपरिधीरापदेषु द्रव्य-गुण-विकार-व्यतिक्रमप्रतिषेधरूपेषु बोहि-षडहोलूखलमुशल-यूप-गिरापदधर्माः कर्त्तव्याः । नेति तत्र पूर्वपक्षवादी, 20 ये व्रीहौ विदितास्ते कथमविहितत्वाद् नीवारेषु क्रियेरन्, ये च षडहधर्मास्ते कथं मध्वशने, ये चोलूखलमुशलयोः श्रुताः प्रोक्षणादयस्ते कथं नखेषु, यूपोपदिष्टाश्च कथं परिधौ, गिरापदे च ये श्रुता गोत्यादयस्ते कथम् इरापदे श्रुत्यभावादनुष्ठीयेरन्नित्याह ततः सिद्धान्तसूत्रमिदं धर्मस्यार्थकृतत्वादिति । एतेषु नीवारादिषु चोदनानुबन्धः । व्रीह्यादिसम्बन्धेन या धर्माणां चोदना तयानुबन्धः सम्बन्धः, तत्सम्बन्धेन नीवारादिसम्बन्धेन 25 ब्रोह्यादिगतत्वचोदितधर्मसम्बन्धः स्यात् । कुतः ? समवायात् । यतोऽसौ धर्मः प्रोक्षणादि व्रीहीन् प्रोक्षतीति व्रीह्यादिसम्बन्धेन श्रुतस्तत्र तत्र समवैतीति सम्भाव्यते कारणान्तरादतः कारणान्तरसम्भाव्यमानात् तत्समवायात् कर्तव्या एव ते धर्मा इत्यर्थः। किन्तु
न्या० म० १५