________________
११२
न्यायमञ्जर्य्यां
[ एकादशम्
I
ते धर्माः कथं प्रयोक्तव्या इति युक्तया प्रयोगनिरूपणमूह उच्यते । येनेत्थं • प्रयोक्तव्या इति धर्मा व्यवस्थाप्यन्ते । स च त्रिविधो मन्त्रसामसंस्कारविषयः । मन्त्रविषयस्तावद् यथात्रैव सौर्ये चरौ प्रकृतिवद्भावेनाग्नेयात्, 'अग्नये त्वा जुष्टं निर्व॑पामि'इति निर्वापमन्त्रः प्राप्तः कथं प्रयोक्तव्य इति विचारणायामुच्चारणमात्रेण मन्त्राणामनुपयोगात् प्रयोगसमवेतद्रव्यदेवतादिप्रकाशनद्वारेण तदुपयोगस्य व्यवस्थितत्वाद् इह अविकृत एवायमग्नये जुष्टमिति प्रयुज्यमानो मन्त्रः प्रयोगसमवायिनोऽर्थस्याप्रकाशनादसङ्गतो भवेत्, सर्वात्मना चोत्सृज्यमानो मन्त्रो मन्त्रप्रकाशितकर्माननुष्ठानान्न प्रकृतिवत् कृतं भवेदित्यग्निपदोद्धारेण सूर्यपदप्रक्षेपेण मन्त्र ऊहेनेत्थं प्रयोक्तव्य इति गम्यते सूर्याय त्वा जुष्टं 10 निर्वपामीति ।
5
15
ननु ऊहप्रवरनामधेयानाममन्त्रत्वादित्थमपि न मन्त्रेण स्मृतं कर्मकृतं स्यात् ? नैतत्, 'एकदेशविकृतमनन्यवद्भवति' इति न्यायात् । सामविषयस्तु गीतयः सामानीति स्थिते क्वचित् कर्मणि 'रथन्तरमुत्तरयोर्गायति, बृहदुत्तरयोर्गायति' इति श्रुतेः सा बृहद्रथन्तरगीतिर्यस्यामृचि योनिभूतायामुत्थिता ततोऽन्यस्यामपि प्रयुज्यते । तादृगक्षरापायेऽपि च सामगीतिॠ गन्तराक्षरेष्वपि प्रत्यभिज्ञायते रथन्तरमनेन श्लोकमिति व्यवहारर्शनात् । संस्कारविषयः खल्वपि प्रकृतौ 'प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ति' इति संस्कारश्चोदितः,
20
ननूहप्रवरेति । तदुक्तम् “अनाम्नातेषूहमात्रत्वमाम्नायेषु हि विभागः" इति । ऊहः 'अग्नये' इत्यस्य स्थाने 'सूर्याय' इति पदस्य प्रयोगः । अध्वर्युणा प्रवरानुश्रावणे क्रियमाणे ये यजमानसम्बन्धिगोत्रप्रसिद्धाद् उपयोगमभिस्वरैरुच्चर्यान्ते ते प्रवराः । सुब्रह्मण्य इन्द्र आगच्छेति सुब्रह्मण्यनिगदे अमुकगोत्रो यजत इति । यद् यजमानस्य संकीर्तनं तन्नामधेयं येषूहप्रवरनामधेयेषु । अमन्त्रत्वं शिष्टैर्मन्त्रत्वेनानभिधानादिति । रथन्तरमुत्तरयोर्गायतीति । यद् योनिभूतायाम् ऋचि कवतीषु रथन्तरं गायतीति वचनात् “कया नश्चित्र आभुवदूतो” इत्यस्यामुत्पन्नम्, तदुत्तरयोर्धातोरुत्तराख्यग्रन्थविशेषविपठितयोः, 25 तीति प्राकृतं रूपं येन विशिष्टस्तोत्रसाधनता रथन्तरस्य प्रकृतौ जाता ऊह्यते प्रोक्षिताभ्यामुलूखलेति । प्रोक्षणाख्यो यः संस्कारस्तुषकणविप्रमोकाख्यसंस्कारजनकयोरुलूखलमुशलयोः कृतः, स नखेषु तत्संस्कारजनकत्वाद्बह्यते ।
गाय