________________
आह्निकम् ] तर्कप्रकरणम्
१११ प्राकृतवद्वैकृतं कर्म कर्तव्यमिति सेतिकर्तव्यताकं तदनुष्ठीयते। एवं सामान्यातिदेशे स्थिते सति कस्य वैकृतस्य कर्मणः कुतः प्रकृतेर्धर्मा अधिगन्तव्या इति चिन्तायां द्रव्यदेवतादिचोदनासारूप्यपर्यालोचनोपनतहृदयसन्निधानप्राकृतकर्मविशेषसम्बन्धिन एव तत्र धर्मा भवितुमर्हन्तीति स्थापिते युगपदुपनिपतदनर्गलचोदकव्यापारोपनीतनिखिलाखण्डमण्डलविध्यन्तकाण्डाधिगम्यधर्मसम्बन्धप्राप्तौ सत्यां 5
यागेनापूर्वसाधनमिति प्रतीयते, तत्र यागो लौकिकत्वाज्ज्ञायते, कथं चापूर्वं साधयेदित्येतन्न ज्ञायते । इह त्वपूर्वं साधयेदित्येतावन्मात्रमुक्तम्, कथं साधयेदितीतिकर्तव्यता नोक्ता । तेषां चार्थानां ज्ञायत एवेतिकर्तव्यता तेषां कर्तव्यतामात्रमुपदिश्यते यथौदनं पचेति । येषां तु न ज्ञायते ते सहेतिकर्तव्यतयोपदिश्यन्ते यथा दर्शपूर्णमासौ, एवं चेत्तन्न ज्ञायते यागेनापूर्वनिर्वृत्तावितिकर्तव्यता यस्मान्नोक्ता । सा चास्ति लौकिकी वैदिकी च। 10 अत इतिकर्तव्यताया अविधिः, अविधानेन यजतेः पूर्ववत्त्वं विहितेतिकर्तव्यताकत्वम् । एवं च लौकिकी। सा कार्या स्याद् वैदिकी निःसंशया। “स लौकिकः स्याद् दृष्टप्रवृत्तित्वात्' इति लौकिकीमाशक्य “लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात्" इत्यादिना वैदिक्येवेति सिद्धान्तितम् । स कर्तव्यतोपायो लौकिकः स्यात् पार्वणस्थालोपाकादौ तस्यैव प्रवृत्तिदृष्टेरिति पूर्वपक्षसूत्रार्थः । लिङ्गेन वेतिकर्तव्यता नियम्येत वैदिक्येव न लौकिकीति, 15 लिङ्गं च सौर्ये चरौ प्रयाजे कृष्णलं जुहोतीत्यादि, एवमादिलिङ्गैर्ज्ञायते वैदिकीति, कथं कृत्वा ? लिङ्गस्य तद्गुणत्वात् । एते हि प्रयाजादयो वैदिकस्य दर्शपूर्णमासापूर्वस्य गुणाः । अतो वैदिकाः पूर्वाङ्गत्वादेषां विकृतौं दर्शनमेवमुपपद्यते यदि तद् वैदिकमपूर्वं तेभ्यो विकृतियागेभ्यो धर्मान् प्रयच्छति, ते च तद्ग्रहणेन तत्पूर्वका भवेयुः, नान्यथा अस्ति च दर्शनम्, अतो वैदिक्येवेति द्वितीयसूत्रार्थः । प्राकृतवद् वैकृतं कर्म कर्तव्यमिति । विहितेति 20 कर्तव्यताकस्य धर्मा अवहितेतिकर्तव्यताके कर्तव्या इत्यर्थः। द्रव्यदेवतादिचोदनासारूप्ये। तथा च सूत्रम् “यस्य लिङ्गमर्थसंयोगादभिधानवत्" इति यस्य वैदिकस्य विध्यन्तस्य लिङ्गं किञ्चिच्छब्दगतमर्थगतं वा वैदिक्यां कर्मचोदनायां तद्गुणवाक्ये वा दृश्यते, तत्र स विध्यन्तः स्यात् । कुतः ? अर्थसंयोगात् । तस्यार्थस्य लिङ्गस्य तेन विध्यन्तेन संयोगोऽनुभूतपूर्वः संयोगिनोश्वान्यतरो दृश्यमान इतरददृश्यमानमनुमानाद् बुद्धौ । सन्निधापयति, अभिधानवत् । यथाग्निहोत्रमित्यभिधानं कौण्डपायिनामयने श्रूयमाणं तैयमिकाग्निहोत्रधर्मान् बुद्धावुपस्थापयति ।