________________
न्यायमञ्ज
[ एकादशम् __अपि च तर्कशब्दं केचिदनुमाने प्रयुञ्जते । यथा स्मृतिकाराः पठन्ति,
आर्ष धर्मोपदेशञ्च वेदशास्त्राविरोधिना ।
यस्तर्केणानुसंधत्ते स धर्म वेद नेतरः ॥ इति । 5 तदिहापि तर्कोऽनुमानं मा विज्ञायीत्यूहग्रहणम् । ऊहोऽत्र तर्क उच्यते
नानुमानम् । तत्त्वज्ञानार्थताप्यस्य प्रमाणानुग्राहकत्वेन न साक्षात् तथैव चार्थं साधयितुमेष वादे प्रयुज्यते हृदयशुद्धिप्रकाशनार्थम् । तर्कविषये मतान्तराणि
कापिलास्तु बुद्धिधर्ममूहमाहुः, स तत्सिद्धान्तप्रसिद्धसत्त्वरजस्तमोरूप10 प्रकृतिप्रभवभुवनसर्गादिव्यवहारनिराकरणवर्त्मना पूर्वमेव निरस्तः ।
जैमिनीयास्तु ब्रुवते, युक्तया प्रयोगनिरूपणमूह इति । इह हि किञ्चिदुपदिष्टदृष्टादृष्टस्वभावसकलेतिकर्तव्यताकलापं कर्म भवति, यथा आग्नेयोऽष्टाकपाल इति दर्शपूर्णमासकाण्डे पठितम्, क्वचित् पुनः प्रधानकर्ममात्रमुपदिश्यते इतिकर्तव्यता तु काचन नाम्नायते, यथा 'सौर्यं चरु निर्वपेद् ब्रह्मवर्चसकामः' इति । तत्र विचार्यते किम् इतिकर्तव्यताविरहित यथाश्रुतप्रधानमात्रसम्पादनेन तत्र शास्त्रार्थप्रयोगः परिसमाप्यते उत तदपि सेतिकर्तव्यताकं प्रधानमनुष्ठेयमिति, तत्रापूर्वप्रयुक्तत्वेन धर्माणां प्रतिकरणं भेदे स्थिते निरङ्गस्य प्रधानस्याननुष्ठेयत्वाद् विध्यन्ताधिकरणसिद्धान्तन्यायेन
हृदयशुद्धिप्रकाशनार्थमिति । मयैवमयमर्थो ज्ञात इति प्रकाशनेन हि वीतरागता ततो दर्शिता भवति ।
कापिलास्तु बुद्धिधर्ममूहमिति । शुश्रूषा-श्रवण-ग्रहण-धारण-विज्ञानोहापोहतत्त्वाभिनिवेशा अष्टौ ते बुद्धधर्मा उक्ताः । तथा च 'विज्ञानमूहनम्' इत्याद्याहुः ।
तत्रापूर्वप्रयुक्तत्वेन धर्माणां प्रतिकरणं भेदे स्थिते इति । प्रथमाह्निके व्याख्यातम् । 25
विध्यन्ताधिकरणसिद्धान्तन्यायेनेति । "इतिकर्तव्यताऽविधेर्यजतेः पूर्ववत्त्वम्" इत्यत्र विध्यन्ताधिकरणे चिन्तितम् । 'सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः' इत्यत्र तावद्